________________
त्रिषष्टिशलाका-
पुरुषचरिते
॥२९॥
विविधाभिग्रहस्तपस्तत्परः प्रतिमाधरः । ध्यानवान्निर्ममो वाली मुनिर्व्याहरताऽवनौ ।। २२७ ॥ वालिभट्टारकस्याऽथोत्पेदिरे लब्धयः क्रमात् । सम्पदः पादपस्येव पुष्पपत्रफलादयः ।। २२८ ॥ अष्टापदाद्रौ गत्वा च कायोत्सर्गमदत्त सः । लम्बमानभुजो बद्धदोलादण्ड इव द्रुमः ।। २२९ ।। कायोत्सर्ग समुत्सृज्य मासान्ते पारणं व्यधात् । उत्सर्गपारणान्येवं भूयो भूयश्चकार सः ।। २३० ॥ इतश्च दशकण्ठाय सुग्रीवः श्रीप्रभां ददौ । संशुष्यत्प्राक्तनस्नेहतरोः सारणिसन्निभाम् ॥ २३१ ।। यौवराज्ये तु सुग्रीवो वालिपुत्रं महौजसम् । चन्द्ररश्म्युज्ज्वलयशाश्चन्द्ररश्मिं न्यवीविशत् ।। २३२ ॥ सुग्रीवप्रतिपन्नाज्ञः श्रीप्रभां तत्सहोदराम् । उपयम्य गृहीत्वा च ययौ लङ्कां दशाननः ।। २३३ ।। विद्याधरनरेन्द्राणामन्येषामपि कन्यकाः । उपयेमे रूपवतीर्बलादपि हि रावणः ॥ २३४ ॥ नित्यालोकपुरे नित्यालोकविद्याधरेशितुः । कन्यां रत्नावलीं नाम्ना तदोद्वोढुं चचाल सः ।। २३५ । अष्टापदाद्रेरुपरि गच्छतस्तस्य पुष्पकम् । विमानं स्खलितं सद्यो वप्रे बलमिव द्विषाम् ।। २३६ ।। न्यग्नाङ्गरं महापोतमिव बद्धमिव द्विपम् । विमानं रुद्धगतिकं प्रेक्ष्याऽकुप्यद्दशाननः ।। २३७ ॥ को मद्विमानस्खलनाद्विविक्षति यमाननम् ? । एवं वदन् समुत्तीर्य सोऽद्रिमूर्धानमैक्षत ॥ २३८ ॥ अधस्तात् स विमानस्य ददर्श प्रतिमास्थितम् । वालिनं तस्य शैलस्य नवं शृङ्गमिवोत्थितम् ॥ २३९ ॥ ऊचे च रावणः क्रुद्धो विरुद्धोऽद्याऽपि मय्यसि । व्रतं वहसि दम्भेन जगदेतद्दिदम्भिषुः ।। २४० ।। कयाऽपि माययाऽग्रेऽपि मां वाहीक इवाऽवहः । प्राव्राजीः शङ्कमानोऽस्मत्कृतप्रतिकृतं खलु ।। २४१ ।। १ सुग्रीवेन प्रतिपन्नाज्ञा यस्य सः । २ प्रवेष्टुमिच्छति । ३ अस्माकं कृतस्य प्रतिक्रियाम् ।
ܒܢ
सप्तमं पर्व
द्वितीयः सर्गः
रामलक्ष्मण
रावण
चरितम् ।
दशाननस्य विमान
स्खलनम् ।
।। २९ ।।