________________
त्रिषष्टिशलाकापुरुषचरिते
२८॥
सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् ।
त्वं दोष्माञ्च्छ्रावकश्चाऽसि सैन्ययुद्धं विमुञ्च तत् । अनेकप्राणिसंहाराच्चिराय नरकाय यत् ॥ २१२ ॥ एवं सम्बोधितस्तेन दशास्योऽपि हि धर्मवित् । अङ्गेन योद्धमारेभे सर्वयुद्धविशारदः ॥२१३ ॥ यद्यदस्त्रं दशग्रीवोऽक्षिपत्तत्तत्कपीश्वरः । स्वास्त्रैः प्रतिजघानोच्चैर्वह्नितेज इवाऽर्यमा ।। २१४ ॥ सार्प-वारुणमुख्यानि मन्त्रास्त्राण्यपि रावणः । मुमोच तानि तााद्यैरस्त्रैर्वाली जघान च ।। २१५ ।। शस्त्रमन्त्रास्त्रवैफल्यक्रुद्धो दशमुखस्ततः । चकर्ष चन्द्रहासासिं महाहिमिव दारुणम् ।। २१६ ॥ एकशृङ्गो गिरिरिवैकदन्त इव कुञ्जरः । उच्चन्द्रहासोऽधाविष्ट वालिने दशकन्धरः ।। २१७ ।। सचन्द्रहासं लङ्केशं सशाखमिव शाखिनम् । वामेन बाहुना वाली लीलयैय समाददे ।। २१८ ।। तं कन्दुकमिव न्यस्याऽविहस्तो हस्तकोटरे । चतुःसमद्रीं बभ्राम क्षणेनाऽपि कपीश्वरः ।। २१९ ।। तदानीमेव तत्रैत्य त्रपावनतकन्धरम् । दशकन्धरमुज्झित्वा वालिराजोऽब्रवीदिति ।। २२० ।। वीतरागं सर्वविदमाप्तं त्रैलोक्यपूजितम् । विनाऽर्हन्तं न मे कश्चिन्नमस्योऽस्ति कदाचन ॥२२१ ।। अङ्गोत्थितं द्विषन्तं तं धिङ्मानं येन मोहितः । इमामवस्थां प्राप्तोऽसि मत्प्रणामकुतूहली ।। २२२ ।। पूर्वोपकारान् स्मरता मया मुक्तोऽसि सम्प्रति । दत्तं च पृथिवीराज्यमखण्डाज्ञः प्रशाधि तत् ।। २२३ ।। विजीगीषौ मयि सति तवेयं पृथिवी कुतः । क्व हस्तिनामवस्थानं वने सिंहनिषेविते ? ।। २२४ ॥ तदादास्ये परिव्रज्यां शिवसाम्राज्यकारणम् । किष्किन्धायां तु सुग्रीवो राजाऽस्त्वाज्ञाधरस्तव ॥ २२५ ।। एवमुक्त्वा निजे सुग्रीवं न्यस्य तत्क्षणात् । स्वयं गगनचन्द्रर्षिपादमूलेऽग्रहीद् व्रतम् ।। २२६ ।। १ गारुडाथैः । २ अव्याकुलः स तं रावणं-हस्तकोटरे कक्षायां न्यस्य-विक्षिप्य । ३ विजेतुमिच्छति मयि ।
रावणस्य वालिना सह युद्धम्, रावणस्य पराजयः वालिनश्च प्रव्रज्या।
॥२८॥