________________
त्रिषष्टिशलाकापुरुषचरिते
॥२७॥
सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् ।
सम्पद्यापदि चाऽन्योऽन्यं पूर्वे साहायक व्यधुः । स्नेहो निबन्धनं तत्र सेव्यसेवकता न तु ॥ १९८ ।। देवं सर्वज्ञमर्हन्तं साधुं च सुगुरुं विना । सेव्यमन्यं न जानीमो मोहः कः स्वामिनस्तव ? ।। १९९ ।। मन्यमानेन सेव्यं स्वमस्मानपि च सेवकान् । कुलक्रमागतः स्नेहगुणस्तेनाऽद्य खण्डितः ॥२०० ।। तस्य मित्रकुलोत्पत्तेर्निजां शक्तिमजानतः । न करोमि स्वयं किञ्चिदपवादैककातरः ॥२०१ ।। विप्रियं कुर्वतस्तस्य करिष्यामि प्रतिक्रियाम् । अग्रेगून भविष्यामि पूर्वस्नेहँद्रुकतने ।। २०२ ।। यथाशक्ति तव स्वामी स करोतु व्रजाऽरेरे! । वालिनैवं विसृष्टः स गत्वाऽऽख्यद्दशमौलये ॥२०३ ॥ तद्गिरोद्दीपितक्रोधपावकोऽथ दशाननः । ससैन्य उद्धरस्कन्धः किष्किन्धामाययौ द्रुतम् ।। २०४ ।। सन्नह्य वालिराजोऽपि राजमानो भुजौजसा । तमभ्यगाहोष्मतां हि प्रियो युद्धातिथिः खलु ।। २०५ ॥ ततः प्रववृते युद्धमुभयोरपि सैन्ययोः । गण्डशैलागण्डशैलि द्रमामि गदागदि । २०६ ॥ तत्राऽचूर्यन्त शतशो भ्रष्टपर्पटवद्रथाः । मृत्पिण्डवदभिद्यन्त महान्तोऽपि मतङ्गजाः ।। २०७ ॥ कुष्माण्डवदखण्ड्यन्त स्थाने स्थाने तुरङ्गमाः । चञ्चापुरुषवद्भूमावपात्यन्त च पत्तयः ।।२०८ ॥ तं प्रेक्ष्य प्राणिसंहार सानुक्रोशः प्लवङ्गराट । वीरः सत्वरमभ्येत्य जगादेति दशाननम् ।। २०९ ।। युज्यते न वधः प्राणिमात्रस्याऽपि विवेकिनाम् । पञ्चेन्द्रियाणां हस्त्यादिजीवानां बत का कथा ? ॥२१०॥ द्विषज्जयाय यद्येष तथाऽप्यों न दोष्मताम् । दोष्मन्तो हि निजैरेव दोभिर्विजयकारिणः ।। २११ ॥ १ पूर्वजाः । २ कारणम् । ३ अग्रेसरः । ४ पूर्वस्नेह एव वृक्षस्तस्य च्छेदने । ५ अररे इति क्षुद्रसम्बोधनेऽव्ययम् । ६ दृढस्कन्धः ।७ अग्निना भ्रथः ये पर्पयः भाषायां पापड' तद्वत् । ८ सकरुणः । ९ एष प्राणिवधः ।
रावणस्य वालिना सह युद्धम् ।
॥२७॥