________________
| सप्तमं पर्व
द्वितीयः
त्रिषष्टिशलाकापुरुषचरिते
॥२६॥
सर्गः रामलक्ष्मणरावणचरितम् ।
साऽसूत च वने तस्मिन् सिंही सिंहमिवोल्बणम् । विराधं नाम तनयं नयादिगुणभाजनम् ।। १८४ ।। सम्प्राप्तयौवनः सर्वकलाजलधिपारगः । अस्खलत्प्रसरः पृथ्वीं विजहार महाभुजः ।। १८५ ।। इतः कथाप्रसङ्गेन सभायां रावणोऽशृणोत् । प्रौढप्रतापं बलिनं वालिनं वानरेश्वरम् ॥ १८६ ॥ रावणोऽन्यप्रतापस्याऽसहनो भानुमानिव । प्रेजिघायाऽनुशिष्यैकं दूतं वालिमहीभुजे ।। १८७ ॥ स गत्वा वालिनं नत्वा व्याजहारेति धीरवाक् । दूतोऽहं दशकण्ठस्य राजस्तद्वाचिकं शृणु ।। १८८ ॥ अस्माकं पूर्व कीर्तिधवलं पूर्वजस्तव । शरण्यं शरणायाऽगाच्छ्रीकण्ठो वैरिविद्रुतः ।। १८९ ।। त्रात्वाऽरिभ्यः श्वशुर्य तं तद्वियोगैककातरः । इहैव वानरद्वीपे श्रीकीर्तिधवलो न्यधात् ।। १९० ॥ तदादि चाऽऽवयोर्भर्तृभृत्यसम्बन्धतो मिथः । भूयांसःक्ष्माभुजो जग्मुः पक्षयोरुभयोरपि ॥ १९१ ।। अथाऽभवत्क्षितिपतिः किष्किन्धिस्ते पितामहः । सुकेश इत्यभिधया मम तु प्रपितामहः ।। १९२ ॥ तयोरपि हि निव्यूढः स सम्बन्धस्तथैव हि । ततो नृपः सूर्यरजास्त्वदीयस्त्वभवत्पिता ॥ १९३ ।। यमगुप्तेस्तमाकर्ष यथाऽहं वेत्ति तज्जनः । यथा च किष्किन्धाराज्ये न्य॑धां तदपि विश्रुतम् ।। १९४ ।। नयवांस्तनयस्तस्य वालिंस्त्वमधुनाऽभवः । प्राग्वत्स्वस्वामिसम्बन्धादस्मत्सेवां कुरुष्व तत् ।। १९५ ॥ क्रुद्धोऽप्यविकृताकारो गर्ववह्निशमीतरुः । एवं गम्भीरगीली व्याजहार महामनाः ।।१९६ ॥ अन्योऽन्यं स्नेहसम्बन्धं जानामि कुलयोर्द्वयोः । रक्षो-वानरराजानापद्य यावदखण्डितम् ॥ १९७ ॥ १ अकुण्ठितगमनः । २ प्रेषयामास । ३ शिक्षयित्वा । ४ श्वशुरपुत्रम् श्यालकम् । ५ निर्वाहीकृतः । ६ स्थापितवान् । ७ सेव्यसेवकसम्बन्धात् । ८ गर्व एवाग्निस्तस्मिन् शमीवृक्षसमः ।
खरेणसह चन्द्रणखायाः विवाह, वालिनं प्रति रावणदूतागमनम् ।
॥२६॥