________________
त्रिषष्टिशलाकापुरुषचरिते IR५॥
सप्तमं पर्व | द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् ।
नरेन्द्र आदित्यरजा वालिने बलशालिने । दत्वा राज्यं प्रवव्राज तपस्तप्त्वा ययौ शिवम् ।। १७० ।। सम्यग्दृष्टिं न्यायवन्तं दयावन्तं महौजसम् । स्वानुरूपं यौवराज्ये सुग्रीवं वाल्यपि न्यधात् ।। १७१ ।। अन्यदा तु दशग्रीवश्चैत्यवन्दनहेतवे । सकलत्रो गजारूढः प्रययौ मेरुपर्वते ।। १७२ ।। अत्रान्तरे चन्द्रणखामपश्यत् खरखेचरः । जातरागो जातरागां जहे मेघप्रभात्मजः ।। १७३ ।। ययौ पाताललां च तत्र चन्द्रोदरं नृपम् । आदित्यरजसः सूनुं निर्वास्याऽऽदत्त तां स्वयम् ।। १७४ ।। क्षणेनाऽप्याययौ मेरोर्लङ्कायां दशकन्धरः । आकर्ण्य तच्चन्द्रणखाहरणं प्रचुकोप च ॥ १७५ ।। खरखेचरघाताय चचालाऽथ दशाननः । पञ्चानन इव क्रूद्धो गजाखेटककर्मणे ।। १७६ ।। अथ मन्दोदरी देवी निजगादेति रावणम् । संरम्भः कोऽयमस्थाने मनाग्विमृश मानद ! ।। १७७ ॥ कन्या ह्यवश्यं कस्मैचिदातव्या यदि सा स्वयम् । वरं वृणीते रुचितमभिजातं च साधु तत् ।।१७८ ।। अनुरूपो वरश्चन्द्रणखाया दूषणात्मजः । अदूषणश्च ते पत्तिर्भविष्यत्येष विक्रमी ।। १७९ ।। प्रेष्य प्रधानपुरुषांस्तदुद्वाहय तं तया । अस्मै पाताललङ्कां च देहि धेहि प्रसन्नताम् ।। १८० ॥ एवं सोऽवेरजाभ्यामप्युक्तो युक्तविचारकृत् । प्रस्थाप्य मय-मारीचौ तेन तां पर्यणाययत् ।। १८१ ।।
ततः पाताललङ्कायां स चन्द्रणखया समम् । निर्विघ्नं बुभुजे भोगान् दधद्रावणशासनम् ।। १८२ ।। - निर्वासिते तदा तेन कालाच्चन्द्रोदरे मृते । अनुराधेति तत्पत्नी नंष्ट्वाऽगाद्गर्भिणी वने ॥ १८३ ॥ १ खरनामा विद्याधरः । २ निराकृत्य । ३ गजमृगयाकर्मणे । ४ कुलिनम् । ५ अनुजाभ्याम् । ६ तेन खरेण निर्वासिते चन्द्रोदरे कालान्मृते सतीत्यन्वयः ।
खरेण चन्द्रण
खायाः पहरणम् ।
॥२५ ॥