________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥२४॥
युगपद्भूयसो बाणान् वर्षन्नथ दशाननः । यमं जर्जरयाञ्चक्रे जरेव बलनाशकृत् ।। १५५ ।। अथ प्रणश्य सङ्ग्रामाद्यमस्त्वरितमभ्यगात् । रथनूपुरनेतारमिन्द्रं विद्याधरेश्वरम् ।। १५६ । यमः शक्रं नमस्कृत्य जगादेति कृताञ्जलिः । जलाञ्जलिर्मयाऽदायि यमत्वाय प्रभोऽधुना ।। १५७ ।। रुष्य वा तुष्य वा नाथ ! करिष्ये यमतां न हि । उत्थितो हि दशग्रीवो यमस्याऽपि यमोऽधुना ।। १५८ ।। विद्राव्य नरकारक्षान्नारकास्तेन मोचिताः । क्षत्रव्रतधनेनोच्चैर्जीवन्मुक्तोऽस्मि चाऽऽहवात् ।। १५९ ।। जित्वा वैश्रवणं तेन लङ्कापि जगृहे युधि । तद्विमानं पुष्पकं च जितश्च सुरसुन्दरः ।। १६० ।। क्रुद्धोऽथ शक्रो युद्धेच्छुर्निषिद्धः कुलमन्त्रिभिः । तैस्तैरुपायैर्बलिना सह विग्रहभीरुभिः ।। १६१ ॥ यमाय सुरसङ्गीतं पुरमिन्द्रोऽथ दत्तवान् । स्वयं तथैव तस्थौ च विलसन्रथनूपुरे ।। १६२ ।। इतश्चाऽऽदित्यरजसे किष्किन्धां नगरीं ददौ । दशास्य ऋक्षरजसे पुरमृक्षपुरं पुनः ।। १६३ ।। जगाम तु स्वयं लङ्कामलेङ्कर्मीणविक्रमः । स्तूयमानो देवतेव बन्धूभिर्नागरैश्च सः ।। १६४ ।। अमरेन्द्रोऽमरावत्यामिव तस्यामवस्थितः । दशास्यः प्रशशासाऽथ राज्यं पैतामहं महत् ।। १६५ ।। इतश्चाऽऽदित्यरजसः कपिराजस्य नन्दनः । महिष्यामिन्दुमालिन्यां वाली नामाऽभवद् बली ।। १६६ ॥ जम्बूद्वीपं समुद्रान्तं वाली बाहुबलोल्बणः । नित्यं प्रदक्षिणीकुर्वन् सर्वचैत्यान्यवन्दत ।। १६७ ॥ सुग्रीव इति चाऽन्योऽभूदादित्यरजसः सुतः । कन्यां कनीयसी तस्य सुप्रभेति च नामतः ।। १६८ ॥ अभूतामृक्षरजसोऽप्युभौ भुवनविश्रुतौ । भार्यायां हरिकान्तायां नलनीलाभिधौ सुतौ ।। १६९ ।
१ बलनाशकारिणी वृद्धावस्थेव । २ अलं समर्थः कर्मणे कार्याय विक्रमो यस्य सः ।
৬+++++*
सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावण
चरितम् ।
आदित्यरजऋक्षरजसोः मोचनार्थं यमेन सह
रावणस्य युद्धम्,
तयोश्च स्वराज्यप्राप्तिः ।
॥ २४ ॥