________________
त्रिषष्टिशलाकापुरुषचरिते
॥२३॥
| सप्तम पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् ।
चिरं युद्ध्वा यमेनोच्चैर्बद्ध्वा कारानिकेतने । क्षिप्तौ सूर्यरजा ऋक्षरजाः सपदि दस्युवत् ।। १४० ।। विधाय नरकावासांस्तेन वैतरणीयुतान् । छेदभेदादिदुःखं तौ प्राप्येते सपरिच्छदौ ।। १४१ ।। तौ त्वदीयौ क्रमायातौ सेवको दशकन्धर! । मोचय त्वमलच्याज्ञ ! तवैव स पराभवः ॥ १४२ ।। रावणोऽपि जगादैवमेवमेतदसंशयम् । आश्रयस्य हि दौर्बल्यादाश्रितः परिभूयते ।। १४३ ।। परोक्षतः पत्तयोऽमी यद्बद्धास्तेन दुर्धिया । कारायां यच्च निक्षिप्ता एष यच्छामि तत्फलम् ।। १४४ ॥ इत्युदीर्योग्रदोर्वीर्यः सानीकोऽनीकलालसः । पुरी जगाम किष्किन्धा यमदिक्पालपालिताम् ।। १४५ ।। त्रपुपान-शिलास्फाल-पशुच्छेदादिदारुणान् । ददर्श नरकांस्तत्र सप्ताऽपि दशकन्धरः ।। १४६ ।। क्लिश्यमानान्निजान् पत्तीन् दृष्ट्वा रुधे दशाननः । परमाधार्मिकांस्तत्राऽत्रासयद्गरुडोऽहिवत् ।। १४७ ।। स्वपत्तीन् मोचयामास तत्रस्थानपरानपि । महतामागमो ह्याशु क्लेशच्छेदाय कस्य न ?॥ १४८ ।। यमाय नरकारक्षास्तत्तु नारकमोक्षणम् । क्षणाद् गत्वा समाचख्युः सपूत्कारोव॑बाहवः ।। १४९ ।। क्रोधारुणाक्षः सद्योऽपि यमो यम इवाऽपरः । नगर्या निर्ययौ योद्धं युद्धनाटकसूत्रभृत् ।। १५० ॥ सैन्याः सैन्यैः समं सेनाधिपैः सेनान्य आहवम् । चक्रुर्यमः पुनः क्रुद्धः क्रुद्धेन दशमौलिना ।। १५१ ।। शराशरि चिरं कृत्वा यमोऽधाविष्ट वेगतः । शुण्डादण्डमिव व्यालो दण्डमुत्पाट्य दारुणम् ।। १५२ ।। खण्डशः खण्डयामास नालकाण्डमिवाऽथ तम् । क्षुरप्रेण दशग्रीवः क्लीबवद्गणयन् परान् ।। १५३ ।। यमः पृषत्कैर्भूयोऽपि च्छादयामास रावणम् । अवारयद्रावणस्तॉल्लोभः सर्वगुणानिव ।। १५४ ॥ १ युद्धलालसः । २ युद्धनाटके सूत्रधारः । ३ बाणविशेषेण । ४ बाणैः ।
रावणस्य यमेन सह युद्धम् ।
॥२३ ।।