________________
त्रिषष्टिशलाकापुरुषचरिते
॥२२॥
सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् ।
राज्यं कुरुष्व निःशङ्को लङ्कायामपि बान्धव !। वयमन्यत्र यास्यामो न हीयत्येव मेदिनी ।। १२७ ।। तस्मिन्नेवं ब्रूवाणेऽपि महात्मा प्रतिमास्थितः । किञ्चिन्नोचे वैश्रवणस्तद्भवेऽपि शिवङ्गमी ।। १२८ ॥ ज्ञात्वाऽनीहं वैश्रवणं क्षमयित्वा प्रणम्य च । विमानं पुष्पकं तस्य सोऽग्रहीत्सह लङ्कया ।। १२९ ।। जयलक्ष्मीलतापुष्पं सोऽधिरुह्याऽथ पुष्पकम् । सम्मेतशैलशृङ्गेऽर्हत्प्रतिमा वन्दितुं ययौ ।। १३० ।। वन्दित्वा प्रतिमाः शैलाद्रावणस्याऽर्वरोहतः । सेनाकलकलेनैको जगर्ज वनकुञ्जरः ।। १३१ ॥ अथ प्रहस्त इत्यूचे प्रतिहारो दशाननम् । हस्तिरत्नमसौ देव ! देवस्याऽर्हति यानताम् ।। १३२ ।। ततः पिङ्गोत्तुङ्ग न्तं मधुपिङ्गललोचनम् । उदग्रकुम्भशिखरं मदनिर्झरिणीगिरिम् ।। १३३ ॥ सप्तहस्तसमुच्छ्रायं नवहस्तायतं च तम् । क्रीडापूर्वं वशीकृत्याऽध्यारुरोह दशाननः ।। १३४ ।। ।। युग्मम् ।। चकार तस्य भुवनालङ्कारः इति नाम सः । ऐरावणगजारूढशक्रलक्ष्मी विडम्बयन् ।। १३५ ।। गजमालानितं कृत्वा तत्रैवोवास तां निशाम् । दशास्यः प्रातरध्यष्ठादास्थानी सपरिच्छदः ।। १३६ ।। तत्रोपेत्य प्रतीहारविज्ञप्तो घातजर्जरः । विद्याधरस्तं पवनवेगो नत्वैवमब्रवीत् ।। १३७ ।। देव ! पाताललङ्कायाः किष्किन्धिनृपनन्दनौ । किष्किन्धायां गतौ सूर्यरजा ऋक्षरजा अपि ॥ १३८ ।। अभूधुद्धं तयोस्तत्र यमेन सह भूभुजा । यमेनेवाऽतिघोरेण प्राणसंशयदायिना ।। १३९ ॥ १ शिवं मोक्षं गमिष्यतीति । २ इच्छारहितम् । ३ जयलक्ष्मीरेव लता, तस्याः पुष्परूपम् । ४ अवतरतः । ५ वाहनताम् । ६ मदनद्या उत्पन्नत्वेन गिरिसमदृशम् ।
वैश्रवणेन सह युद्धम् तत्पराजयो दीक्षा च, रावणस्य लङ्काहस्तिरत्नयोश्च प्राप्तिः ।
॥२२ ॥