________________
त्रिषष्टिशलाकापुरुषचरिते
२१॥
सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् ।
अन्यस्य शासनाला यः शास्त्येवं वदन् स किम् । न लज्जते ? स्वात्मनोऽपि तस्य धाय॑मो! महत् ।।११३ ॥ दूतोऽसीति न हन्मि त्वां याहीति दशमौलिना । उक्तो वैश्रवणं गत्वा दूतोऽशंसद्यथातथम् ।। ११४ ।। दूतानुपदमेवाऽथ दशकण्ठः ससोदरः । ससैन्यः प्रययौ लङ्काममर्षेण गरीयसा ।। ११५ ॥ अग्रे गतेन दूतेन तेनाऽऽख्यातप्रवृत्तिकः । ससैन्यो निर्ययौ लङ्कापुर्या वैश्रवणो युधि ।। ११६ ।। वन्यामिव महावातः प्रसरन्ननिवारितम् । क्षणादभाङ्क्षीच्च तस्याऽक्षौहिणी दशकन्धरः ।। ११७ ।। रावणेन बले भग्ने भग्नंमन्यः स्वयं ततः । एवं वैश्रवणो दध्यौ विध्मातक्रोधपावकः ।। ११८ ।। सरसो लूनपद्मस्य भग्नदन्तस्य दन्तिनः । शाखिनश्छिन्नशाखस्यालङ्कारस्य च निर्मणेः ॥ ११९ ।। नष्टज्योत्स्नस्य शशिनस्तोयदस्य गताम्भसः । परैश्च भग्नमानस्य मानिनो धिगवस्थितिम् ।।१२० ॥
॥युग्मम् ॥ तस्याऽथवाऽस्त्ववस्थानं यतमानस्य मुक्तये । स्तोकं विहाय बहिच्छुर्न हि लज्जास्पदं पुमान् ॥ १२१ ।। तदलं मम राज्येनानेकानर्थप्रदायिना । उपादास्ये परिव्रज्यां द्वारं निर्वाणवेश्मनः ।। १२२ ।। अप्येतावपकर्तारौ कुम्भकर्णबिभीषणौ । जातौ ममोपकर्तारावीदृक्पथनिदर्शनात् ।। १२३ ॥ रावणोऽग्रेऽपि मे बन्धुर्बन्धुः सम्प्रति कर्मतः । विनास्योपक्रममिमं न हि स्यान्मम धीरियम् ।। १२४ ।। एवं ध्यात्वा वैश्रवणस्त्यक्त्वा शस्त्रादि सर्वतः । तत्त्वनिष्ठः परिव्रज्यां स्वयमेव समाददे ।। १२५ ।। तं नत्वा रावणोऽप्येवमुवाच रचिताञ्जलिः । ज्येष्ठो भ्राता त्वमसि मे सहस्वाऽऽगोऽनुजन्मनः ॥ १२६ ॥ १ वनानां समूहो वन्या, ताम् । २ मेघस्य । ३ अपराधम् ।
रावणस्य वैश्रवणेन सह युद्धम् ।
।।२१ ॥