________________
त्रिषष्टिशलाकापुरुषचरिते
२०॥
सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् ।
रावणेन
नागपाशैरबध्नाच्च पशूनिव दशाननः । प्रेयसीभिः पितृभिक्षां याचितस्तान्मुमोच च ।। ९९ ।। ततस्ते स्वपुरं जग्मुः समं ताभिश्च रावणः । स्वयम्प्रभपुरं प्राप दत्ता? मुदितैर्जनैः ।।१०० ।। अथ कुम्भपुरेशस्य महोदरमहीपतेः । सुरूपनयनादेवीकुक्षिजां नवयौवनाम् ।। १०१ ॥ सुतां नाम्ना तडिन्मालां तडिन्मालोपमद्युतिम् । पूर्णकुम्भस्तनाभोगां कुम्भकर्ण उपायत ।।१०२ ।।
॥युग्मम् ।। वैताठ्यदक्षिणश्रेण्यां ज्योतिष्पुरपुरेशितुः । वीरनाम्नो नन्दवतीदेवीकुक्षिसमुद्भवाम् ॥ १०३ ।। पङ्कजश्रीदस्युदृशं नामतः पङ्कजश्रियम् । कन्यां सुरस्त्रियमिव पर्यणैषीद् बिभीषणः ।। १०४ ।। ।। युग्मम् ।। अथ मन्दोदरी देवी देवेन्द्रसमतेजसम् । पुत्रमिन्द्रजितं नाम सुषुवेऽद्भुतविक्रमम् ॥१०५ ।। कियत्यपि गते काले द्वितीयमपि नन्दनम् । मेघवन्नयनानन्दं सुषुवे मेघवाहनम् ॥ १०६ ।। आकर्ण्य पितृवैरं तत्कुम्भकर्णबिभीषणैः । वैश्रवणाश्रितां लङ्कामुपदुद्रुवतुः सदा ॥ १०७ ।। वैश्रवणोऽथ दूतेनेत्यवोचत सुमालिनम् । निजौ शाधि शिशू हन्त रावणावरजाविमौ ।। १०८ ।। स्वान्यशक्ती न जानीतो दुर्मदौ वीरमानिनौ । एतौ पाताललङ्कास्थौ भेकौ कूपोद्भवाविव ।। १०९ ॥ अस्मत्पुर्यामवस्कन्दं ददाते छलकर्मणा । जितकामितया मत्तौ मया चिरमुपेक्षितौ ॥११० ।। न चेच्छिक्षयसि क्षुद्र तदिमौ मालिवर्मना । त्वया सहैव नेष्यामि त्वं वेत्स्यस्मद्बलं न तु ॥ १११ ।। इत्युक्त्या रावणः क्रुद्धोऽभ्यधादिति महामनाः । रे! क एष वैश्रवणः ? करदो यः परस्य हि ।। ११२ ॥ १ कमललक्ष्म्याश्चोरयित्र्यौ दृशौ नेत्रे यस्यास्ताम् । २ शिक्षय । ३ जेतुमिच्छया ।
खेचर
कन्यालमम्, अमरसुन्दरेण सह युद्धम् वैश्रवणस्य दूतागमनं च।
॥२०॥