________________
त्रिषष्टिशलाका
पुरुषचरिते
1198 11
रावणः क्रीडयाऽन्येद्युर्ययौ मेघरवं गिरिम् । उत्पक्षमिव पार्श्वावलम्बिभिर्मेघमण्डलैः ।। ८५ । सरस्यपश्यन्मज्जन्तीस्तत्र खेचरकन्यकाः । षट् सहस्रान् सोऽप्सरस इव क्षीरसरस्वति ।। ८६ । पद्मिन्य इव मार्तण्डं स्मेरलोचनपङ्कजाः । नाथीयन्त्यः सानुरागास्तमीक्षाञ्चक्रिरेऽथ ताः ॥ ८७ ॥ सद्योऽप्यपास्य मन्दाक्षममन्दस्मरपीडिताः । भर्ता नस्त्वं भवैवं ताः प्रार्थयाञ्चक्रिरे स्वयम् ॥ ८८ ॥ तत्र पद्मावती सर्वश्री - सुरसुन्दरोद्भवा । मनोवेगा- बुधसुता चाऽन्याऽशोकलताभिधा ।। ८९ ।। अन्या विद्युत्प्रभा नाम सुता कनक-सन्ध्ययोः । एवमन्या अपि जगत्प्रख्यातान्वयसम्भवाः ।। ९० ।। ताः सुरागाः सरागेण दशग्रीवेण कन्यकाः । गान्धर्वेण विवाहेन सर्वा अप्युपयेमिरे ।। ९१ ।। तत्सौंविदास्तत्पितॄणामिदमेत्य व्यजिज्ञपन् । कोऽप्येष कन्या यौष्माकीः परिणीयाऽद्य गच्छति ।। ९२ ॥ समं तत्पितृभिर्विद्याधरैरमरसुन्दरः । क्रुद्धोऽन्वधावद्रभसा जिघांसुर्दशकन्धरम् ।। ९३ ।। नवोढास्ता दशग्रीवमूचुः प्रकृतिकातराः । त्वरितं प्रेरय स्वामिन् ! विमानं मा विलम्बय ।। ९४ ।। एकोऽप्यजय्योऽयं विद्याधरेन्द्रोऽमरसुन्दरः । किं पुनः कनकबुधप्रमुखैः परिवारितः ।। ९५ ।। दशास्यस्तद्गिरा स्मित्वा व्याजहारेति सुन्दरीः । पश्यताऽऽजिं ममाऽमीभिर्गरुडस्योरगैरिव ।। ९६ ।। इति ब्रुवाणमेयुस्तं कुर्वाणाः शस्त्रदुर्दिनम् । घना इव महाशैलं विद्याधरमहाभटाः ।। ९७ ।। अस्त्राण्यस्त्रैः खण्डयित्वा रावणो वीर्यदारुणः । सद्यः प्रस्वापनास्त्रैणाऽर्जिघांसुस्तानमोहयत् ।। ९८ ।। १ सरोवरे । २ नाथमिच्छन्त्यः | ३ लज्जाम् । ४ सौविदा अन्तःपुररक्षका नपुंसकनराः । ५ हन्तुमिच्छुः । ६ जेतुमशक्यः । ७ सङ्ग्रामम् । ८ हन्तुमनिच्छुः ।
सप्तमं पर्व द्वितीयः
सर्गः
रामलक्ष्मणरावण
चरितम् ।
रावणस्या मरसुन्दरेण
सह युद्धम् ।
।। १९ ।।