________________
त्रिषष्टिशलाकापुरुषचरिते
॥१८॥
| सप्तमं पर्व द्वितीयः | सर्गः श्रीरामलक्ष्मणरावण| चरितम् ।
विद्यासिद्धिं तु तां तेषां श्रुत्वा तौ पितरौ स्वसा । बन्धवश्वाऽऽययुस्तत्र प्रतिपत्तिश्च तैः कृता ।।७१ ।। पित्रोदृशां सुधावृष्टिं बन्धूनामेकमुत्सवम् । जनयन्तः सुखं तस्थुर्धातरस्ते त्रयोऽपि हि ।। ७२ ॥ उपवासैरथो षड्भिश्चन्द्रहासमसिं वरम् । दशास्यः साधयामासौपयिकं साधने दिशाम् ॥७३ ।। इतश्च वैताढ्यगिरौ दक्षिणश्रेणिभूषणे । पुरेऽभूत्सुरसङ्गीते मयो विद्याधरेश्वरः ॥७४ ।। तस्य हेमवती नाम गुणानां धाम गेहिनी । तत्कुक्षिजन्मा दुहिता नाम्ना मन्दोदरीत्यभूत् ।। ७५ ।। तां प्राप्तयौवनां प्रेक्ष्य तद्वरार्थी व्यचिन्तयत् । विद्याधरकुमाराणां मयराजो गुणागुणान् ।। ७६ ।। अनुरूपमपश्यंश्च वरं मयनरेश्वरः । यावद्विषादमग्नोऽस्थात्तावन्मन्त्र्येवमब्रवीत् ।। ७७ ।। स्वामिन्मा विषीद किञ्चिदस्त्यस्या उचितो वरः । रत्नश्रवःसुतो दोष्मान् रूपवांश्च दशाननः ।।७८ ॥ सिद्धविद्यासहस्रस्याऽकम्पितस्य सुरैरपि । विद्याधरेषु नाऽस्याऽस्ति तुल्यो मेरोरिवाऽद्रिषु ॥७९ ।। एवमेतदिति प्रोच्य मयो हर्षमहामनाः । सबान्धवः ससैन्यश्च सान्तःपुरपरिच्छदः ।। ८० ।। मन्दोदरीमुपादाय प्रदातुं दशमौलये । पुरुषैर्तापयित्वा स्वं स्वयम्प्रभपुरं ययौ ॥ ८१ ॥युग्मम् ।। सुमालिप्रमुखास्तत्र गोत्रवृद्धा महाशयाः । मन्दोदरी दशास्याय ग्रहीतुं प्रतिपेदिरे ।। ८२ ।। विवाहं कारयामासुस्तयोरथ शुभे दिने । वैवाहिकाः सुमाल्याद्या मयप्रभृतयश्च ते ।। ८३ ।। ययुर्मयाद्याः स्वपुरं कृतोद्वाहमहोत्सवाः । रावणोऽपि चिरं रेमे रमणीवरया तया ।। ८४ ।। १ उपयोगिनम् ।
SHAHARASHASANSARANS
भ्रातृत्रयस्य विद्यासिद्धिः, मन्दोदर्या सह रावणस्य लग्नः ।
॥१८॥