________________
त्रिषष्टिशलाका
पुरुषचरिते 1199 11
साधु साध्वित्यभूद्वाणी गीर्वाणानामथाऽम्बरे । ते च द्रुतमेपासर्पश्चकिता यक्षकिङ्कराः ॥ ५७ ॥ तव स्मो वशवर्तिन्य इति जल्पन्त्य उच्चकैः । विद्याः सहस्रमभ्येयुर्दशास्यं द्योतिताम्बराः ।। ५८ ।। प्रज्ञप्ती रोहिणी गौरी गान्धारी च तथा परा । नभः सञ्चारिणी कामदायिनी कामगामिनी ।। ५९ ।। अणिमा लघिमाऽक्षोभ्या मनः स्तम्भनकारिणी । सुविधाना तपोरूपा दहनी विपुलोदरी ।। ६० ।। शुभप्रदा रजोरूपा दिनरात्रिविधायिनी । वज्रोदरी समाकृष्टिरदर्शन्यजरामरा ।। ६१ ।। अनलस्तम्भनी तोयस्तम्भनी गिरिदारणी । अवलोकनी तु वह्निर्घोरा धीरा भुजङ्गिनी ॥ ६२ ॥ वारिणी भुवनाऽवन्ध्या दारुणी मदनाशिनी । भास्करी रूपसम्पन्ना रोशनी विजया जया ।। ६३ ।। वर्धनी मोचनी चैव वाराही कुटिलाकृतिः । चित्तोद्भवकरी शान्तिः कौबेरी वशकारिणी ।। ६४ ॥ योगेश्वरी बलोत्सादा चण्डा भीतिः प्रधर्षिणी । दुर्निवारा जगत्कम्पकारिणी भानुमालिनी ।। ६५ ।। एवमाद्या महाविद्याः पुरा सुकृतकर्मणा । स्वल्पैरेव दिनैः सिद्धा दशास्यस्य महात्मनः ।। ६६ ॥ ॥ अष्टभिः कुलकम् ॥ संवृद्धिर्नृम्भणी सर्वाहारिणी व्योमगामिनी । इन्द्राणीति पञ्च विद्याः कुम्भकर्णस्य चाऽसिधन् ॥ ६७ ॥ सिद्धार्था शत्रुदमनी निर्व्याघाता खगामिनी । विद्याश्चतस्रः संसिद्धाः कुम्भकर्णानुजन्मनः ।। ६८ ।। जम्बूद्वीपपतिः सोऽपि क्षमयामास रावणम् । महतामपराद्धे हि प्रणिपातः प्रतिक्रिया ॥ ६९ ॥ स यक्षोऽकृत तत्रैव रावणस्य कृते कृती । स्वयम्प्रभं पुरं विघ्नप्रायश्चित्तचिकीरिव ।। ७० ।। १ देवानाम् । २ अनश्यन् ।
सप्तमं पर्व द्वितीयः
सर्गः
रामलक्ष्मण
रावण
चरितम् ।
भ्रातृत्रयस्य विद्यासिद्धिः ।
119109 11