________________
त्रिषष्टिशलाकापुरुषचरिते
॥१६॥
सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् ।
ततः किलकिलारावकारिणो बहुरूपिणः । उत्पाट्य गिरिशृङ्गाणि तदग्रे केऽपि चिक्षिपुः ।। ४२ ॥ चन्दनद्रुमवत् सीभूय तान् केऽप्यवेष्टयन् । सिंहीभूय पुरस्तेषां पूच्चक्रुः केऽपि दारुणम् ।। ४३ ॥ अच्छ-भल्ल वृक-व्याघ्र-बिडालादिवपुर्भूतः । चक्रुर्बिभीषिकां केचिन्नाऽक्षुभ्यंस्ते तथाऽपि हि ।। ४४ ॥ कैकसी रत्नश्रवसं जामि चन्द्रणखां च ते । विकृत्य बद्ध्वा च पुरस्तेषां सपदि चिक्षिपुः ।। ४५ ।। रत्नश्रवःप्रभृतयस्ते च मायामयास्तदा । उदश्रुनयना एवं चक्रन्दुः करुणस्वरम् ।। ४६ ।। वयं हन्यामहे बद्ध्वा तिर्यञ्चो लुब्धकैरिव । एभिर्गतघृणैः कैश्चिधुष्माकं पश्यतामपि ।। ४७ ॥ उत्तिष्ठोत्तिष्ठ वत्स ! त्वं त्रायस्व दशकन्धर! । एकान्तभक्तस्तादृक् त्वमस्मान् कथमुपेक्षसे ?॥ ४८ ॥ यो बालोऽपि महाहारं तं कण्ठे विन्यधाः स्वयम् । तस्य बाहुबलं क्वाऽद्य ? क्वाऽहङ्कारश्च ते गतः ? ।। ४९ ॥ कुम्भकर्ण ! त्वमपि नो नाऽऽकर्णयसि किं वचः ? । यदेवमस्मान् दीनास्यानुदासीन इवेक्षसे ? ॥ ५० ॥ बिभीषण ! क्षणमपि न भक्तिविमुखोऽभवः । किं परावर्तित इव दुष्टदैवेन सम्प्रति ? ॥ ५१ ॥ विलपत्स्वपि तेष्वेवं न चेलुस्ते समाधितः । ततस्तदने तन्मौलींश्चिच्छिदुर्यक्षकिङ्कराः ।। ५२ ।। अपश्यन्त इवाऽग्रस्थमपि तत्कर्म दारुणम् । न मनागप्ययुः क्षोभं ते ध्यानाधीनचेतसः ।। ५३ ।। रावणाग्रेऽपातयंस्ते मौली तदनुजन्मनोः । दशग्रीवस्य मूर्धानं तयोरग्रे तु मायया ।। ५४ ॥ किञ्चिच्चुक्षुभतुः कोपात्कुम्भकर्णबिभीषणौ । गुरुभक्तिस्तत्र हेतुर्न पुनः स्वल्पसत्त्वता ॥ ५५ ॥ रावणः परमार्थज्ञस्तमनर्थमचिन्तयन् । विशिष्टध्याननिष्ठोऽभूद्गिरीन्द्र इव निश्चलः ॥ ५६ ॥ १ भगिनीम् । २ तस्य लघुभ्रात्रोः ।
अनादृतदेवतद्देवीकृतानु
| कूलप्रतिकूलोपसर्ग
वर्णनम् ।
॥ १६ ॥