________________
सप्तमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
॥१५॥
द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् ।
श्वेतांशुकभृतो यामद्वितयेन त्रयोऽपि हि । सर्वकामप्रदामष्टाक्षरी विद्यामसाधयन् ।। २७ ।। ।। युग्मम् ।। दशकोटीसहस्राणि जपो यस्य फलप्रदः । आरेभिरे ते जपितुं तं मन्त्रं षोडशाक्षरम् ।। २८ ।। तदा त्वनादृतो नाम जम्बूद्वीपपतिः सुरः । सान्तःपुरः क्रीडनाय तत्राऽऽयातो ददर्श तान् ।। २९ ।। विद्यासाधनविघ्नाय तेषां यक्षाधिपः स तु । अनुकूलोपसर्गाय प्रजिघाय स्वयोषितः ।। ३० ।। तेषां क्षोभार्थमायातास्तद्रूपैरतिसुन्दरैः । ताः क्षोभं स्वयमेवेयुर्विस्मृतस्वामिशासनाः ।। ३१ ।। निर्विकारान् स्थिराकारांस्तूष्णीकानवलोक्य तान् । अकृत्रिमस्मरावेशविवशास्ते बभाषिरे ।। ३२ ।। भो भो ध्यानजडा ! यूयं यत्नतः पश्यताऽग्रतः । देव्योऽपि च वशीभूताः का वः सिद्धिरतः परा ? ||३३ ।। किं विद्यासिद्धये यत्नस्तत्क्लेशेनाऽमुना कृतम् । किं करिष्यथ विद्याभिर्देव्यः सिद्धा वयं हि वः ।। ३४ ।। रमध्वं स्वैरमस्माभिस्त्रयाणां जगतामपि । रम्यरम्यप्रदेशेषु सुरदेश्या यथारुचि ।। ३५ ।। सकाममिति जल्पन्त्योऽनल्पधैर्येषु तेषु ताः । विलक्षा जज्ञिरे यक्षास्तालिका नैकहस्तिका ।। ३६ ।। जम्बूद्वीपपतिर्यक्षस्ततस्तानब्रवीदिति । मुग्धैः किमेतदारब्धं युष्माभिः कष्टचेष्टितम् ।।३७ ।। मन्ये पाखण्डिना केनाऽप्यकाण्डे मृत्युहेतवे । पाखण्डं शिक्षिता यूयमनाप्तेन दुरात्मना ।। ३८ ।। यात याताऽधुनाऽप्येतं मुक्त्वा ध्यानदुराग्रहम् । ब्रूताऽहमपि यच्छामि वाञ्छितं वः कृपापरः ।। ३९ ॥ इत्युक्तेऽपि हि तूष्णीकांस्तान् क्रुद्धः सोऽब्रवीदिति । मुक्त्वा प्रत्यक्षदेवं मां किमन्यं ध्यायथाऽपरम् ।। ४०॥ इति स क्रूरवाग्यक्षस्तत्परिक्षोभहेतवे । भ्रूसञ्ज्ञया समादिक्षत् किङ्करान् वानमन्तरान् ॥ ४१ ॥ १ अंशुकं वस्त्रम् । २ देवसदृशाः । ३ एकहस्तेन तालिका न भवेदिति यावत् ।
| अनादृतदेव| तद्देवीकृतानु कूलप्रति
कूलोपसर्ग
वर्णनम् ।
॥ १५ ॥