________________
त्रिषष्टिशलाका
पुरुषचरिते
1॥१४॥
सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् ।
अथैवमवदद्रोषभीषणाक्षो बिभीषणः । अलं मातर्विषादेन न वेत्सि सुतविक्रमम् ।। १३ ।। आर्यस्य दशकण्ठस्य पुरस्ताद्देवि ! दोष्मतः । क इन्द्रो ? वैश्रवणः कः ? केऽन्ये विद्याधरा अपि ? || १४ ॥ अज्ञातपूर्विणा लङ्काराज्यं सोढं द्विषामिदम् । दशास्येन प्रसुप्तेन सिंहनेवेभगर्जितम् ।। १५ ।। आस्तामार्यो दशग्रीवः परानतिभटानपि । अप्यायः कुम्भकर्णोऽयं निःशेषीकर्तुमीश्वरः ।। १६ ॥ अस्त्वार्यः कुम्भकर्णोऽपि तदादेशात् करोम्यहम् । द्विषामकाण्डे संहारं मातः ! पातः पवेरिव ।। १७ ॥ अथोचे रावणोऽप्येवं दशनैरधरं दशन् । त्वं वज्रकठिनाऽस्यम्ब ! यदुःशल्यमधाश्चिरम् ।। १८ ।। अप्येकबाहुस्थाम्ना तान् हन्यामिन्द्रादिकान् द्विषः । शस्त्राशस्त्रिकथाऽप्यस्तु वस्तुतस्ते तृणं हि मे ॥ १९ ॥ दोर्वीर्येणाऽपि निर्जेतुं यद्यप्यलमहं परान् । तथाऽपि हि प्रयोक्तव्या विद्याशक्तिः क्रमागता ।। २० ॥ तद्विद्याः साधयिष्यामि निरवद्याः समन्ततः । अनुजानीहि यास्यामि तत्सिद्ध्यै सानुजोऽप्यहम् ।। २१ ॥ एवमुक्त्वा नमस्कृत्य पितरौ सानुजोऽपि सः । ताभ्यां च चुम्बितो मूनि भीमारण्यमुपाययौ ।। २२ ॥ शयानशयुनिःश्वासकम्पमानान्तिकद्रुमम् । दृप्तशार्दूललाङ्कलाच्छोटस्फोटितभूतलम् ।। २३ ।। अस्तोकघूकघूत्कारघोरभूरुहगह्वरम् । नृत्यद्भुतपदाघातपतगिरितटोपलम् ।। २४ ॥ भयङ्करं दिविषदामप्येकं पदमापदाम् । भ्रातृभ्यां सहितस्ताभ्यां तदरण्यं विवेश सः ।। २५ ॥
॥ त्रिभिर्विशेषकम् ।। ते जटामुकुटान्मूर्ध्नि धारयन्तस्तपस्विवत् । अक्षसूत्रधरा नासवंशाग्रन्यस्तदृष्टयः ।। २६ ।। १ एकहस्तबलेन । २ शयुरजगरः ।
मातृवचनात् सानुजस्य रावणस्य वैश्रवणे कोपः, विद्यायै वनवासश्च।
॥१४॥