________________
द्वितीयः सर्गः ।
त्रिषष्टिशलाकापुरुषचरिते
॥१३॥
सप्तमं पर्व द्वितीयः सर्गः रामलक्ष्मणरावणचरितम् ।
अथाऽन्येधुर्दशमुखः सानुजोऽपश्यदम्बरे । विमानारूढमायान्तमृद्धवैश्रवणं नृपम् ।। १ ।। कोऽयमित्यनुयुक्ता तु तेन माताऽब्रवीदिति । कौशिकाया मम ज्येष्ठभगिन्या ह्येष नन्दनः ।। २ ।। विश्रवो नामधेयस्य विद्याधरपतेः सुतः । सर्वविद्याधरेन्द्रस्येन्द्रस्याऽग्रसुभटो ह्ययम् ।।३।। भवत्पितामहज्येष्ठं हत्वेन्द्रो मालिनं रणे । लङ्कां सराक्षसद्वीपां ददावस्मै च नः पुरीम् ।। ४ ।। ततः प्रभृति लङ्कायाः प्राप्त्यै कृतमनोरथः । इहाऽस्ति ते पिता वत्स युक्तं शक्ते द्विषि ह्यदः ॥ ५ ॥ लङ्का सराक्षसद्वीपां सह पाताललङ्कया । विद्यां च राक्षसीं नाम पूर्वजन्मात्मजन्मजे ॥ ६ ॥ रेक्षोवंशादिकन्दाय मेघवाहनभूभुजे । राक्षसेन्द्रो ददौ भीमः प्रतीकाराय विद्विषाम् ।।७।।।युग्मम् ।। तस्यां हृतायामाम्नायराजधान्यामरातिभिः । पितामहस्तिष्ठति ते पिताऽपि च परासुवत् ।।८।। अरक्षके क्षेत्र इवोक्षाणस्तस्यामरातयः । स्वैरं चरन्तीति सदा जीवच्छल्यं पितुस्तव ।।९॥ कदा नु सानुजस्तत्र गत्वा पैतामहासने । आसीनो द्रक्ष्यसे वत्स ! मयका मन्दभाग्यया ?।। १०॥ विलोक्य लङ्कालुण्टाकांस्त्वत्कारायां नियन्त्रितान् । शिरोमणिर्भविष्यामि कदा पुत्रवतीष्वहम् ? ।। ११ ।। एवं मनोरथैर्वत्स ! खपुष्पावचयोपमैः । क्षामीभवाम्यहरहर्मरालीव मरौ गता ।। १२ ॥ १ तव पितामहस्य ज्येष्ठनातरमित्यर्थः । २ राक्षसवंशस्याऽऽद्याङ्कराय । ३ आम्नायेन-पारम्पर्येणाऽऽगतायां राजधान्याम् । ४ शत्रुभिः ।५ मृतवत् । ६ वृषाः । ७बद्धान् । ८ हंसी इव
भीमेन मेघवाहनाय | राक्षसी
विद्या
दानम् ।
॥१३॥