Book Title: Trishashti Shakala Purush Charitam Part 4
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 248
________________ त्रिषष्टिशलाकापुरुषचरिते I/२०१॥ सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावणचरितम् । तेषां सीतार्पणगिरा मर्मणीव हतोऽधिकम् । अन्तर्दूनो दशमुखश्चिरं स्वयमचिन्तयत् ।। ३२६ ।। विद्याया बहूरूपाया हृदि निर्णीय साधनम् । शान्तिचैत्यं ययौ शान्तकषायीभूय रावणः ।। ३२७ ।। स्नात्रं श्रीशान्तिनाथस्य पयस्कुम्भैर्दशाननः । स्वयमिन्द्र इवाऽकर्षीद्भक्त्या विकसिताननः ॥३२८ ।। गोशीर्षचन्दनेनाऽगारागं पुष्पैश्च दैवतैः । पूजां विधाय श्रीशान्तेः स्तुतिमेव विनिर्ममे ॥ ३२९ ।। देवाधिदेवाय जगत्तायिने परमात्मने । श्रीमते शान्तिनाथाय षोडशायाऽर्हते नमः ।। ३३० ॥ श्रीशान्तिनाथ ! भगवन् ! भवाम्भोनिधितारण ! । सर्वार्थसिद्धमन्त्राय त्वन्नाम्नेऽपि नमो नमः ।। ३३१ ।। ये तवाऽष्टविधां पूजां कुर्वन्ति परमेश्वर ! । अष्टाऽपि सिद्धयस्तेषां करस्था अणिमादयः ।। ३३२ ।। धन्यान्यक्षीणि यानि त्वां पश्यन्ति प्रतिवासरम् । तेभ्योऽपि धन्यं हृदयं तदृष्ये येन धार्यसे ।। ३३३ ।। देव ! त्वत्पादसंस्पर्शादपि स्यान्निर्मलो जनः । अयोऽपि हेमीभवति स्पर्शवेधिरसान्न किम् ? ॥ ३३४ ।। त्वत्पादाब्जप्रणामेन नित्यं भूलुण्ठनैः प्रभो ! । शृङ्गारतिलकीभूयान्मम भाले किंणावलिः ॥ ३३५ ।। पदार्थः पुष्पगन्धाद्यैरुपहारीकृतैस्तव । प्रभो ! भवतु मद्राज्यसम्पद्वल्लेः सदा फलम् ।। ३३६ ॥ भूयो भूयः प्रार्थये त्वामिदमेव जगद्विभो ! । भगवन् ! भूयसी भूयात्त्वयि भक्तिर्भवे भवे ।। ३३७ ।। स्तुत्वेति शान्ति लङ्केशः पुरो रत्नशिलास्थितः । तां साधयितुमारेभे विद्यामक्षम्रजं दधत् ।। ३३८ ।। अथ मन्दोदरी द्वाःस्थं यमदण्डमदोऽवदत् । जिनधर्मरतोऽष्टाहान्यस्तु सर्वोऽपि पूर्जनः ।। ३३९ ॥ न करिष्यति यस्त्वेवं तस्य दण्डो वधात्मकः । भविष्यतीति लङ्कायामाघोषय हतानकः ॥३४० ॥ १ निश्चित्य । २ जगद्रक्षित्रे । ३ तैरक्षिमिदृष्टः । ४ क्षतावलिः । ५ हत आनको वाद्यविशेषो येन सः । विद्यायै शान्तिस्नात्रादिकरणम् । ॥२०१ ॥

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324