Book Title: Trishashti Shakala Purush Charitam Part 4
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 259
________________ त्रिषष्टिशलाकापुरुषचरिते २१२॥ सर्गः त्यजन्नः सह राज्येन भूयस्त्वद्विरहव्यथाम् । किं दत्से ? वत्स ! तत्तिष्ठ कुर्वाज्ञां मम पूर्ववत् ।। १०२ ।।||* इत्याग्रहपरं रामं ज्ञात्वा नत्वा च सोऽचलत् । यावत्सौमित्रिणा तावदुत्थायाऽधारि पाणिना ॥ १०३ ।। सप्तमं पर्व भरतं च तथा यान्तं व्रताय कृतनिश्चयम् । ज्ञात्वा सीताविशल्याद्यास्तत्राऽऽजग्मुः ससम्भ्रमाः ॥ १०४ ।। | अष्टमः विस्मारयितुकामास्ता भरतस्य व्रताग्रहम् । जलक्रीडाविनोदार्थमर्थनां चक्रिरेतराम् ।। १०५ ।। उपरोधेन तासां च ययौ सान्तःपुरोऽपि सः । क्रीडासरसि चिक्रीड विरक्तोऽपि मुहूर्तकम् ।। १०६ ।। रामलक्ष्मणजलान्निर्गत्य भरतस्तीरेऽस्थाद्राजहंसवत् । स्तम्भमुन्मूल्य भुवनालङ्कारस्तत्र चाऽऽययौ ।। १०७ ।। रावण चरितम् । मदान्धोऽप्यमदः सोऽभूत् सद्यो भरतदर्शनात् । तद्दर्शनेन भरतोऽप्यवाप परमां मुदम् ।। १०८ ।। सम्भ्रमाद्रामसौमित्री तस्योपद्रवकारिणः । करिणो बन्धनायाऽऽशु ससामन्तावुपेयतुः ।। १०९ ।। | रामादीनां रामाज्ञया हस्तिपकैः स स्तम्भे हस्त्यनीयत । आगतौ च मुनी देशभूषणः कुलभूषणः ।। ११०॥ स्वजनउद्याने समवसृतौ वन्दितुं तौ महामुनी । प्रययुः पद्मसौमित्रिभरताः सपरिच्छदाः ।। १११ ॥ भरतस्य वन्दित्वा तौ च पप्रच्छ रामो मम करी कथम् । अमदोऽजनि भुवनालङ्कारो भरतेक्षणात् ? ।। ११२ ॥ जलक्रीडा अथाऽऽख्यत्केवली देशभूषणो नाभिसूनुना । समं सहस्राश्चत्वारो राजानः प्राव्रजन पुरा ।। ११३ ॥ ते तु स्वामिन्यनाहारे कृतमौने विहारिणि । निर्विण्णा जज्ञिरे सर्वे तापसा वनवासिनः ।। ११४ ॥ प्रह्लादनसुप्रभराट्तनयौ तेषु तापसौ । चिरं चन्द्रोदयसूरोदयाख्यौ भ्रमतुर्भवम् ।। ११५ ।। ।।२१२ ॥ चन्द्रोदयो गजपुरे राज्ञो हरिमतेरभूत् । भार्यायां चन्द्रलेखायां सूनुर्नाम्ना कुलङ्करः ।। ११६ ।। १ प्रार्थनाम् । २ तापसा जाता इति सम्बन्धः । मिलापः,

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324