Book Title: Trishashti Shakala Purush Charitam Part 4
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 250
________________ त्रिषष्टिशलाकापुरुषचरिते २०३॥ सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावणचरितम् । तद्वाचा विषसध्रीच्या मूर्च्छिता जनकात्मजा । निपपात दशास्यस्य तस्यामाशेव तत्क्षणम् ।। ३५६ ।। कथञ्चिल्लब्धसञ्ज्ञा सा जग्राहैवमभिग्रहम् । मृत्युश्चेद्रामसौमित्र्योस्तदाऽस्त्वनशनं मम ।। ३५७ ।। तच्छ्रुत्वा रावणो दध्यौ रामे स्नेहो निसर्गजः । अस्यास्तदस्यां मे रागः स्थले कमलरोपणम् ।।३५८ ।। कृतं युक्तं मया तनाऽवज्ञातो यद् बिभीषणः । नाऽमात्याः मानिताः स्वं च कुलमेतत्कलङ्कित्तम् ।।३५९ ।। मुञ्चाम्येतामद्य चेत्तन्न विवेकपदे पतेत् । रामाक्रान्तेन मुक्तेयमिति स्यात्प्रत्युताऽयशः ।। ३६० ।। बद्ध्वेह रामसौमित्री समानेष्ये ततस्तयोः । अर्पयिष्याम्यमूं धर्म्य यशस्यं च हि तद्भवेत् ।। ३६१ ।। इति निश्चित्य लकेशस्तामतीत्य विभावरीम् । युद्धे चचालाऽशकुनैर्वार्यमाणोऽपि दुर्मदः ।। ३६२ ।। भूयः प्रववृते युद्धं रामरावणसैन्ययोः । अत्युद्भटभटभुजास्फोटत्रासितदिग्गजम् ।। ३६३ ।। विधूयाऽशेषरक्षांसि तूलानीव महाबलः । लक्ष्मणस्ताडयामास विशिखैर्दशकन्धरम् ।। ३६४ ।। सौमित्रेर्विक्रमं दृष्ट्वा साशङ्को दशकन्धरः । सस्मार बहुरूपां तां विद्यां विश्वभयङ्कराम् ।। ३६५ ।। स्मृतिमात्रोपस्थितायां विद्यायां तत्र रावणः । विचक्रे भैरवाण्याशु स्वानि रूपाण्यनेकशः ।। ३६६ ।। भूमौ नभसि पृष्ठेऽग्रे पार्श्वयोरपि लक्ष्मणः । अपश्यद्रावणानेव विविधायुधवर्षिणः ।। ३६७ ।। तावद्रप इवैकोऽपि तार्यस्थो लक्ष्मणोऽपि तान् । जघान रावणान् बाणैश्चिन्तितोपनतैः शरैः ।। ३६८ ।। नारायणस्य तैर्बाणैर्विधुरो दशकन्धरः । सस्मार जाज्वलच्चक्रमर्धचक्रित्वलाञ्छनम् ।। ३६९ ।। रोषारुणाक्षस्तच्चक्रं भ्रमयित्वा नभस्तले । मुमोच रावणः शस्त्रमन्त्यं रामानुजन्मने ।। ३७० ।। १ विषतुल्यया । २ सीतायां विषये रावणस्याऽऽशेव । ३ भवेत् । ४ वायुः । रावणलक्ष्मणयो ॥२०३ ॥

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324