Book Title: Trishashti Shakala Purush Charitam Part 4
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 245
________________ त्रिषष्टिशलाका पुरुषचरिते ।।१९८ ।। भरतस्य ममाऽप्येवमुत्पन्नः प्रत्ययः प्रभो ! । आ प्रत्यूषादानयत विशल्यास्नानवारि तत् ॥ २८२ ॥ त्वर्यतां त्वर्यतां तस्मात्प्रत्यूषे किं करिष्यथ ? । पर्यस्ते शकटे हन्त किं कुर्वीत गणाधिपः ? ।। २८३ ।। भामण्डलं हनूमन्तमङ्गदं च रघूद्वहः । आदिशत्प्रतिभरतं विशल्यास्नानवारिणे ॥ २८४ ॥ प्रययुस्ते विमानेनाऽयोध्यां पवनरंहसा । प्रासादाङ्के च ददृशुः शयानं भरतं नृपम् ।। २८५ ।। भरतस्य प्रबोधाय ते गीतं चक्रुरम्बरे । राजकार्येऽपि राजान उत्थाप्यन्ते ह्युपायतः ।। २८६ ।। विबुध्य भरतेनाऽपि दृष्टः पृष्टः पुरो नमन् । ऊचे भामण्डलः कार्यं नाऽऽप्तस्याऽऽप्ते प्ररोचना ।। २८७ ॥ सेत्स्यत्येतन्मया तत्रेयुषेति भरतस्ततः । तद्विमानाधिरूढोऽगात् पुरं कौतुकमङ्गलम् ।। २८८ ॥ भरतेन द्रोणघनो विशल्यामथ याचितः । सहोद्वाह्य स्त्रीसहस्रसहितां तामदत्त च ।। २८९ ।। भामण्डलोऽप्ययोध्यायां मुक्त्वा भरतमुत्सुकः । आययौ सपरीवारो विशल्यासंयुतस्ततः ।। २९० । ज्वलद्दीपविमानस्थो भीतैः सूर्योदयभ्रमात् । क्षणं दृष्टथे निजैः सोऽधाद्विशल्यामुपलक्ष्मणम् ॥। २९१ ।। तया च पाणिना स्पृष्टाल्लक्ष्मणात्तत्क्षणादपि । निर्जगाम महाशक्तिर्यष्टिनेव महोरगी ।। २९२ ।। समुत्पतन्ती सा शक्तिः समुत्पत्य हनूमता । प्रसभं जगृहे श्येनविहगेनेव वर्तिका ।। २९३ ।। साऽप्यूचे देवतारूपा न मे दोषोऽस्ति कश्चन । प्रदत्ता धरणेनाऽस्मै प्रज्ञप्तिभगिनी ह्यहम् ॥ २९४ ॥ विशल्याप्राग्भवतपस्तेजः सोढुमनीश्वरी । एषा यास्यामि मां मुञ्च प्रैष्यभावादनागसम् ।। २९५ ।। १ प्रस्तावना रोचकवाक्य वा । २ सह लक्ष्मणेनेत्यध्याहारः "स" "ह" इति पृथक् पदं वा तत्र हेति स्फुटार्थेऽव्ययम् । ३ किङ्करभावात् । सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मण रावणचरितम् | रावणस्य शक्तिनाशार्थं विशल्या गमनम् । ।। १९८ ।।

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324