________________
१. जीव-सिद्धिः नैतत्कायस्वभावः स्याद्भिन्न-पर्याय-दर्शनात्। न हि बाल्यादिवत्कायाद्रागादेरपि सम्भवः ।।१६।। भिन्न-पर्याय-वत्त्वं हि स्वभावस्य न युज्जते । तद्वत्त्वे हि स्वभावित्वं तत्तत्त्वान्तरमेव तत् ] ॥२०॥ [पि]मो(ष्टो)दक-गुडादिभ्यो जाता द्रव्यान्तरं सुरा । न स्वभावस्ततोऽस्याः स्याद्भिन्न-पर्यायिताऽपि च ।।२।। ततस्तत्त्वान्तरत्वे चाकार्यत्वेऽपि च देहिनः । भूतवन्नित्यताऽपि स्यात्सदहेतुकाता-स्थितेः ॥२२॥ एवं स्यात्परलोकोऽपि नास्तिको नास्तु तर्कवान् । बाधानाहिदे (धाऽनासादि)[तः स हि विपरीतधियो हि सा ॥२३॥ सत्येवाऽऽत्मनि धर्मे च सौख्योपाये सुखार्थिभिः । धर्म एव सदा कार्यो न हि कार्यमकारणे ॥२४॥ इति श्रीमद्वादीभसिंहसूरि विरचितायां स्याद्वादसिद्धौ
चार्वाक प्रति जीवसिद्धिः ।।१।।
[२. फलभोक्तृत्वाभाव-सिद्धिः ] क्षणिकैकान्तपक्षे तु धर्मो [न स्यात्फलात्ययात् । धर्मकतुः क्षणध्वंसान हि स्वर्गादि-भागयम् ।।१।। कार्य कारण-सन्तानास्कर्तुरेव फलं यदि । अस्तु वा तत्फलं का लब्धं स्यात्कि नु नैव वा ॥२॥ नैव चेत्तत्फलाभावः स्याबौद्धैरपि सम्मतः। लब्धं चेन्नित्यता कर्तुर्यावरफलमवस्थितेः ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org