________________
१४
स्याद्वाद सिद्धौ
[ ४. क्रमानेकान्त-सिद्धिः ]
पूर्वापरेषु चित्तेषु नैकत्वं चेत्तदा कथम् । सन्ता[नो हि भवेत्तत्र ततः ] कर्तुः फलात्ययः ॥ १ ॥ कारणान्यत्वतोऽयं चेज्जनकात्मजयोर्भवेत् । उपादानान्यभावाच्चेत्ल च किं न तयोरपि ॥ २ ॥ सर्वथाऽन्योन्यभिन्नानां चित्तानामेव सम्भवत् । तद्भावः स तयोश्च स्यात्स्यादभेदे हि जैनता ॥ ३ ॥ सादृश्यभावतस्तत्र तद्भावो यदि नेष्यते ] | [तद्भावो न तदा तत्र सा] दृश्ये हि विनश्यति ॥ ४ ॥ देश - कालकृतं तत्र नैरन्तर्य न चेदसत् । न हि स्वलक्षणाद्भिन्नो देशादि : सौगते मते ॥ ५ ॥ तस्मादेकान्त-भेदेऽपि कार्य-कारणरूपतः । तयोस्तद्भावसिद्धयं स्यादेकसन्तानताऽपि च ॥ ६ ॥ यत्र सत्त्वोपलम्भः स्यात्सन्तानस्तत्र चेद [ सत्] । नैरन्तर्यादिना परः ॥ ७ ॥ किं चाभिमत-सन्ताने सादृश्यादेश्च सम्भवः । कार्य-कारणभावाभ्यामेव स्यात्स तयोर्न किम् ॥ ८ ॥ सोऽहमित्येकविज्ञानादेकसन्तानतेष्यते ।
........................
Jain Education International
तज्ज्ञानं तु तयोर्नास्ति पृथगेव तदीक्षणात् ॥६॥ इति चेत्सर्वथा भेदे कार्यान्यत्वे [तयोरपि ] | [ तज्ज्ञानं न भवे ] कस्माद्यतो नियतसन्ततिः ।। १० ।। एकत्व वासना-दाय न (न) तज्ज्ञानं कचिद्भवेत् । काचित्के सति तज्ज्ञाने सा स्यात्तस्यां हि तत्वचित् ॥ ११ ॥
A
For Private & Personal Use Only
www.jainelibrary.org