Book Title: Syadvadasiddhi
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 131
________________ wwwwwwwwwwwwwwwwwwww १२. अभावप्रमाणदूषण-सिद्धिः तदोषध्वंसनार्थ स्याद्गुणवद्वक्त्रपेक्षणम् । इति चेत्तद्गुणायैव किं न स्यात्तदपेक्षणम् ॥ २२ ।। न हि स्वतोऽसती शक्तिरित्याद्यपि च मौढ्यतः । शब्दाप्रामाण्यशक्तिर्हि दुष्टवक्तृ-प्रकल्पिता ॥ २३ ॥ तदर्थ स्यात्तदपेक्षित्वं स्वतः प्रामाण्यसिद्धितः । प्रयोजनान्तरासिद्धेश्चेदन्योन्यसमाश्रयः ॥ २४ ॥ स्वतः प्रामाण्यसिद्धौ स्यात्तदर्थ तदपेक्षणम् । तदर्थे तदपेक्षित्वे तत्सिद्धिः स्यादिति स्फुटम् ॥ २५॥ ततः शब्दे गुणोऽपि स्यादाप्तोक्तत्वं तथा सति । दृष्टान्त एव शब्दः स्यादक्षेषु गुण-साधने ॥ २६ ॥ ततः प्रामाण्य-निष्पत्तिः सामाग्रयन्तरतो भवेत् । तत्कार्य स्वग्रहाच्चेति प्रामाण्यं परतो भवेत् ।। २७ ॥ प्रामाण्ये परत: सिद्धे स्वतः प्रामाण्यहीनता । ततश्च पौरुषेयत्वाद्वेदोऽप्यस्य न बाधकः ॥ २८ ।। इति परतः प्रामाण्य-सिद्धिः ॥ ११ ॥ - - - [१२. अभावप्रमाणदूषण-सिद्धिः] प्रागभावाद्यभावज्ञा नन्वभावप्रमा, ततः। सर्वज्ञाभाववित्तिः स्यात्तयैवेत्यपि दुर्मतम् ॥१॥ भावप्रमाणतोऽन्यायास्तस्या एवानिरीक्षणात् । नास्त्यत्र घट इत्यादौ सा ह्यभावविधीत्यसत् ॥२॥ अत्रेति ज्ञानमध्यक्ष प्राग्विज्ञाते घटे स्मृतिः । अनुपलम्भतो नास्तीत्युक्तावनुमितिर्भवेत् ।।६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172