________________
wwwwwwwwwwwwwwwwwwww
१२. अभावप्रमाणदूषण-सिद्धिः तदोषध्वंसनार्थ स्याद्गुणवद्वक्त्रपेक्षणम् । इति चेत्तद्गुणायैव किं न स्यात्तदपेक्षणम् ॥ २२ ।। न हि स्वतोऽसती शक्तिरित्याद्यपि च मौढ्यतः । शब्दाप्रामाण्यशक्तिर्हि दुष्टवक्तृ-प्रकल्पिता ॥ २३ ॥ तदर्थ स्यात्तदपेक्षित्वं स्वतः प्रामाण्यसिद्धितः । प्रयोजनान्तरासिद्धेश्चेदन्योन्यसमाश्रयः ॥ २४ ॥ स्वतः प्रामाण्यसिद्धौ स्यात्तदर्थ तदपेक्षणम् । तदर्थे तदपेक्षित्वे तत्सिद्धिः स्यादिति स्फुटम् ॥ २५॥ ततः शब्दे गुणोऽपि स्यादाप्तोक्तत्वं तथा सति । दृष्टान्त एव शब्दः स्यादक्षेषु गुण-साधने ॥ २६ ॥ ततः प्रामाण्य-निष्पत्तिः सामाग्रयन्तरतो भवेत् । तत्कार्य स्वग्रहाच्चेति प्रामाण्यं परतो भवेत् ।। २७ ॥ प्रामाण्ये परत: सिद्धे स्वतः प्रामाण्यहीनता । ततश्च पौरुषेयत्वाद्वेदोऽप्यस्य न बाधकः ॥ २८ ।।
इति परतः प्रामाण्य-सिद्धिः ॥ ११ ॥
-
-
-
[१२. अभावप्रमाणदूषण-सिद्धिः] प्रागभावाद्यभावज्ञा नन्वभावप्रमा, ततः। सर्वज्ञाभाववित्तिः स्यात्तयैवेत्यपि दुर्मतम् ॥१॥ भावप्रमाणतोऽन्यायास्तस्या एवानिरीक्षणात् । नास्त्यत्र घट इत्यादौ सा ह्यभावविधीत्यसत् ॥२॥ अत्रेति ज्ञानमध्यक्ष प्राग्विज्ञाते घटे स्मृतिः । अनुपलम्भतो नास्तीत्युक्तावनुमितिर्भवेत् ।।६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org