________________
BY
स्याद्वाद सिद्धौ
परतोऽस्य [हि ] चोत्पत्तिरिन्द्रियाणामदोषतः । हेतोस्त्रैरूप्य - साकल्याच्छब्दस्याप्ताच्च सम्भवात् ॥ १० ॥ दोषाभावो गुणः कस्मान्नीरूपत्वतयेत्यसत् । त्रैरुप्याभाव एवं हि हेतुदोषो न सम्भवेत् ॥ ११ ॥
पक्षधर्मत्वमुख्यैतत्त्रैरूप्याभावतः परम् । दोषो नास्ति दृष्टोऽपि स्याच्चेत्स्यादिन्द्रिये गुणः ॥ १२ ॥ ततो दोषान्तरादृष्टे त्रैरूप्याभाव एव वै । हेतुदोषो गुणोऽप्येवं स्याद्दोषाभाव इन्द्रिये ॥ १३ ॥ किञ्च स्याद्दोष एषोऽपि त्रिरूपाभाववादिनाम् । भिन्नो भावो भावोऽपि भेदाभेदवादिनाम् ॥ १४ ॥ तोरपि गुणस्तस्य तत्साकल्यं न चेदिदम् । गुणो भवेत्स दोषोऽपि तद्वैकल्यं कथं भवेत् ।। १५ ।। हेतोः स्वरूपमेवेदं तत्साकल्यं यदीष्यते । तद्वैकल्यं न दोषः स्यात्स्वरूपाभाव एव वै ॥ १६ ॥ eat तदन्यदोषोऽस्ति धीहेतु वात्तदक्षवत् ।
क्षेष्वन्योऽपि दृष्टो हि काचादिरिति चेदसत् ॥ १७ ॥ अक्षेष्वन्यगुणोऽप्यस्ति धीहेतुत्वाद्यथा वचः । इत्यस्मादनुमानाद्धि गुणः स्यादिन्द्रियेष्वपि ॥ १८ ॥ दृष्टान्ते साध्यवैकल्यं शब्दस्यागुणवत्वतः । उभयवादिसिद्धो हि दृष्टान्त इति चेदसत् ॥ १६ ॥ शब्दे दोषोद्भवस्तावद्वक्त्रधीन इति स्थितिः । तद्भावः क्वचित्तावद्गुणवक्तृकत्वतः ॥ २० ॥ इति वार्तिकतः शब्दगुणवत्वावियादतः । गुरणबद्वक्तृत्वं हि शब्दस्यात्रैव सम्मतम् ॥ २१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org