________________
११. परतः प्रामाण्य-सिद्धिः ततो वेदस्य नैव स्यात्क रस्मरणादपि । अपौरुषेयला, तस्मारिलद्धा स्यात्पौरुषेयता ।। ३६ ।।
इति वेदपौरुषेयत्व-सिद्धिः ।। ५० ।।
[११. परतः प्रामाण्य-सिद्धिः ] स्वतः सवै प्रमाणानां प्रामाण्यमिति गम्यताम् । न हि स्वतोऽसती शक्तिः कर्तु मन्येन शक्यते ॥ १ ॥ इति वार्तिक-सद्भावाद्वेदोऽपि स्यात्स्वतः प्रमा। तन्नास्य पौरुषेयत्वं तत्त्वे वेदो न सा स्वतः ।। २ ।। इत्यप्यसत्प्रमाणानां प्रामाण्यं परतो भवेत् । यथा, तथाऽनुमानेन वक्ष्यमाणेन साध्यते ।। ३ ॥ प्रामाण्यं न प्रमाणानां स्वतोऽप्रामाण्यवद्भवेत् । सामग्रयन्तर-जन्यत्वात्स्वग्रहे कार्यभावतः ।।४।। अप्रामाण्यस्य सर्वेषामुत्पत्तिः परतो मता। दोष-रूप्यवैकल्यानाप्ताक्तरेव भावतः ।। ५ ।। निवृत्तिलक्षणं कायमध्यस्य परतो मतम् । ममेदमप्रमा ज्ञानमिति ज्ञात्वा निवत्तनात् ।।६।। स्वतोऽप्रामाण्यविज्ञानमेवात्रापि परं भवेत् ।
द्धि स्यात्परमन्येषाम वसंवेदवादिनाम् ।। ७ ।। प्रवृत्तिलक्षणे कार्ये प्रमायाः स्वग्रहः परम् । विषयाव्यभिचारे हि स्वतो ज्ञाते प्रवर्तिते ॥८॥ एवं च परतः सिद्धा प्रामाण्य-ज्ञप्तिरञ्जसा।' गुणात्परत एव स्यात्तदुत्पत्तिरपि स्फुटम् ।। ६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org