________________
३६
स्याद्वाद सिद्धौ
यद्वेदाध्ययनं सर्वं तदध्ययन-पूर्वकम् । तदध्ययन वाच्यत्वादधुनेव भवेदिति ॥ २७ ॥ इत्यस्मादनुमानात्स्याद्वेदस्या पौरुषेयता | ततः स्यात्पौरुषेयत्व-प्रतिज्ञाऽनेन बाधिता ॥ २८ ॥ इति चेत्स्यादयं हेतुरप्रयोजक एव वै । श्रविनाभाव-वैकल्यात्तद्भावेऽस्याप्ययं भवेत् ॥ २९ ॥ पिटकाध्ययनं सर्वं तदध्ययन-पूर्वकम् | तदध्ययन - वाच्यत्वादधुनेव भवेदिति ॥ ३० ॥ अपौरुषेयता वेदे तु रस्मरणाद्भवेत् । इति चेत्सानुमा व्यर्था न हि सिद्धस्य साध्यता ॥ ३१ ॥ कर्तु रस्मरणादेव सा साध्या चेत्तथा न किम् । बौद्धेरपि तदस्मृत्या पिटके साऽपि साध्यते ।। ३२ ।। बौद्धः स्मृतोऽत्र कर्ता चेद्वेदेऽपि स्मृत एव सः । तैरप्यत्रास्मृतोऽयं चेदसाध्याऽपौरुषेयता ॥ ३३ ॥ श्रुतौ तत्स्मृतिरन्येषां प्रमा मा चेन्न तु प्रमा । तत्स्मृतिः पिटकेऽपि स्याबौद्धीयत्वाच्छु ताविव ॥ ३४ ॥
"
पिटके तत्स्मृतिश्चेत्स्यात्प्रमा प्रामाण्यमप्यलम् । पिके स्याद्धि बौद्धानां तत्स्मृतेरपि भावतः ।। ३५ ।। प्रामाण्यं पिटके न स्याद् बौद्धस्यैवात्र तत्स्मृतेः । कर्तृत्वं तु सिद्धं स्यात्परैरप्यत्र तत्स्मृतेः ।। ३६ ।। . इति चेत्कर्तृ भावोऽपि तदस्मृत्या श्रतौ कथम् । बौद्धस्य तत्स्मृतेरेव भावात्तत्कतृ सिद्धितः ॥ ३७ ॥ ततो यथैव बौद्धानां प्रामाण्यस्मृतिरप्रमा । पिटके स्यात्तथा वेदेऽप्यप्रमैव तदस्मृतिः ॥ ३८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org