________________
४०
स्याद्वाद-सिद्धौ
न चान्यद्ग्राह्यमस्त्यत्र सा स्यात्किविषया प्रमा। 'मानसं नास्तिताज्ञानं नाक्षादुद्भवमित्यसत् ॥ ४॥ स्वार्थानुमानसम्भूतिघटादिस्मरणे भवेत् । । हेत्वादिवचने तत्स्यात्परार्थाऽपि च साऽनुमा।। ५ ।। घटादिस्मरणाभावे ग्राह्या स्यात्केवलैव भूः । अध्यक्षान्न निषेधो वा विधिर्वाऽस्ति घटादिषु ।। ६॥ विधिमात्रग्रहेऽध्यक्षादद्वैतस्थितिरित्यसत्। विधावन्यनिषेधोऽपि तयोस्तादात्म्यतो भवेत् ॥ ७ ॥ निषेध्याग्रहणेऽप्यन्यनिषेधः कथमित्यसत् । भावाभावात्मके भावे भाववित्स्यादभाववित् ।।८।। तदभावो घटादेश्चेत्स्यादस्याभाव इत्यसत् । अन्याभावो हि जातोऽस्य स्वोपादानस्य शक्तितः ॥ ६ ॥ मरीचिकाद्यभावो हि जलादिग्रहणेन चेत् । ग्राह्यः कथं प्रवर्तेत निःशङ्कस्तदपेक्षकः ॥ १० ॥ ततोऽभावप्रमा नैव तद्ग्राह्यान्तर-हानितः । भावाद्भिन्नो न चाभावः कार्यद्रव्यं हि नान्यथा ।। ११ ।। प्रागभावे स्थिते तस्य घटादेर्नेह सम्भवः। तदुपमर्दनतश्चेत्कि स्यात्तदुपमर्दकम् ।। १२ ।। तत्कायस्य स्वरूपं चेत्स्यादन्योन्यसमाश्रयः। तदुपमर्दनकार्यात्कार्यं तन्मर्दनादिति ॥ १३ ॥
१ गृहीत्वा वस्तुसनाचं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया ॥
-मी० श्लो० अभाव० श्लो० ११ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org