________________
१३. तर्कप्रामाण्य-सिद्धिः तदुपमर्दनं नाम कार्यस्योत्पत्तिरेव चेत् । कारणस्यैव रूपं स्यात्प्रागभावोऽपि नाऽपरः ॥१४॥ तथा च कारणादेव भावाभावात्मकादिदम् । तादशं कार्यमुत्पन्नमित्यनेकान्तसुस्थितिः ॥११॥ तन्न तागभावोऽपि तत्प्रमा च तथा सति । ततोऽपि सर्वविदो न स्याबाधो बन्ध्यासुतादिव ॥१६॥
इत्यभावप्रमाणदूषण-सिद्धिः ।।१२॥
[१३.तर्कप्रामाण्य-सिद्धिः ] तर्को न स्यात्प्रमाणं तदविनाभाववित्कथम् । इति चेद्व्याप्तिविम्कि स्यादध्यक्षादेरशक्तितः ॥११॥ न हि साकल्यतो व्याप्तिरध्यक्षण प्रतीयते। सर्वदेशाविज्ञानाद्विज्ञाने हि स सर्ववित् ॥२॥ असाकल्येन तद्वित्तौ हेतुर्न गमको भवेत् । तत्पुत्रत्वादिवत् , किञ्च तच्चेत्तद्विद्वृथाऽनुमा ।।३।। क्षणिकत्वादिसाध्यस्य व्याप्तिज्ञानेन सिद्धितः । साध्यतत्साधनावित्तौ न हि तव्याप्ति-निर्णयः ।।४।। न हि प्रत्यक्षतो ज्ञाते नैल्यादावनुमा भवेत् । क्षणिकत्वे समारोपच्छेदनायानुमेत्यसत् ॥५॥ आरोपो यदि तत्र स्यान्नीलादायपि किं न सः । प्रत्यक्षविषयत्वस्य सर्वत्राऽप्यविशेषतः ।।६।। विशेषः क्वापि चेन्नान्ये नैरंश्यं सर्ववस्तुनः । निरंशक्षणिकत्वं हि सौगतैः प्रतिपाद्यते ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org