________________
४२
स्याद्वाद सिद्धौ
तस्माद्द्रष्टस्य भावस्य दृष्ट एवाखिलो गुणः । इति तद्वान् विरोधश्च तन्न व्याप्तिविदक्षजम् ||८|| तद्विच्चेदनुमा तत्राप्यन्या तद्वित्पुनस्तथा । इत्येवमनवस्था तत्तद्वित्तर्कः प्रमा च सः ॥६॥
अगृहीतार्थताऽप्यस्य [ नानासं ] कलनग्रहात् । नाध्यक्षादि हि नानोल्लेखात्म-सङ्कलने क्षमम् ॥ १० ॥ साध्य-साधनसम्बन्धस्तर्कस्य विषयः स च तदुत्पत्त्यादिसम्बन्धाभावात्तद्विषयः कथम् ||११|| असम्बद्धार्थबोधानां घटोऽभूद्विषयः, पटः । नैवेति, नियमायोगाद्विषय [ज्ञानयोर्ननु ] ||१२|| इति चेद्योग्यतैवास्तु सम्बन्धो विषयेऽस्य च । प्रत्यक्षस्येव तस्यापि योग्यता नन्वपेक्षते ||१३|| अन्यथा धीर्जडाकारा किं न वेद्य े घटादिके । साकारज्ञानवादे हि नैरंश्या धीर्न चांशवित् ||१४|| रूपेणै ( ) व रसाथैश्च सन्निकर्षेऽपि चक्षुषः । रसादि किं [ न वेद्य' स्याच्चक्षुषा] योग्यता- द्विषाम् ||१५|| किञ्चासग्रहणे बुद्धेर्योग्यतैव निबन्धनम् । तदुत्पत्त्यादिसम्बन्धो न नीरूपास (रूपाख्य ) ता धियः || १६ || तत्सत्यप्यन्यसम्बन्धे तदभावेऽपि योग्यता ।
पेदयेति, तया तर्फे विषय नियमो भवेत् ॥१७॥ ततस्तर्कप्रमा व्याप्तिज्ञाऽन्यथानुपपत्तितः । भवेत्तेनाविनाभाव निर्णयश्चेति सुस्थितम् ||१८|| विपक्षे बाधनाज्ज्ञाताऽप्यन्यथानुपपन्नता । तोस्तथोपपत्तिस्तु कथं ज्ञेयेति दुर्मतम् ॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org