________________
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
१४..."
तथोपपत्तिरेवेयमन्यथानुपपन्नता। तद्वित्तिरेव तद्वित्तिः पर्युदासनञर्थतः ।।२०।। ततोऽनैकान्तिकासिद्ध-विरुद्धत्वाद्यभावतः । अविनाभावसिद्धेश्च तद्धेतोरस्ति सर्ववित् ॥२शा
इति तर्कप्रामाण्य-सिद्धिः ।। १३ ॥
गुणाद्यभेदो गुण्यादेस्तथा निर्बाध-बोधतः । तद्वत्तस्यान्यथा हानेर्गुणादेरिव संख्यया' ||१|| समवायान्न तद्बुद्धिरिहेदेप्रत्ययो ह्यतः । दृष्टान्ते तदनिष्टश्च तत्सम्बन्धेऽप्ययोगतः ।।२।। तत्प्रत्ययस्य हेतुत्वं समवाये परैर्मतम् । तस्मादभेदधीन स्यात्तस्यां तत्प्रत्ययात्ययात् ।।३।। न हि दृष्टा घटोत्पत्तिः पटसम्पादिकारणैः । ततस्तादात्म्यबुद्धिश्चेत्समवायान्न धीः परा ॥४॥ तादात्म्यप्रत्ययोत्पादि-समवायत एव किम् । . तदाधारत्वबुद्धिश्च सम्भवेदिति युक्तिमत् ।।५।। किञ्च नीलादि नैल्यादिस्वरूपेणावबोधयेत् । अाधारत्वेन नैल्यादेरात्मानं किं नु बोधयेत् ।।६।। अभेदधीन चासिद्धा तस्याः सर्वत्र दर्शनात् । [सं]ज्ञिभूतोऽजडो मन्त्रैर्घटीभूता मृद्धित्यपि ॥जी
१ 'गुण्यादेगुणाद्यभेदोऽस्ति तथानिर्बाधप्रतीतिभावात्, यथा गुणादिसंख्ययोः' इत्यनुमानमत्र दृष्टव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org