________________
स्याद्वाद-सिद्धौ
प्रा.................."नां तदात्मत्वे हि सत्ययम् । च्चिप्रत्ययोऽन्यथा न स्यात्तथाभावोऽप्यभेदिनम् ।।८।। पृथक्त्वाग्रहणादेव गुण-गुण्याद्यभेदधीः । वास्तवाभेदतो नात्र वन-सेनादिबुद्धिवत् ।।६।। वनादेन ह्यभेदोऽस्ति विरलत्वस्य वीक्षणात् । तत्तत्राभेदधीन स्यात्................."भेदधी: ।।१०।। इति चेत्स्थूलधीश्चैवमणुष्वेवेति कथ्यताम् । बौद्वैर्वनादिदृष्टान्तादणुमात्रं हि सम्मतम् ॥११॥ अतीन्द्रियत्वतोऽणूनामप्रतीतिस्ततः कथम् । स्थूलादिप्रतिभासोऽत्र प्रतीते(तौ) ह्यन्यथाग्रहः ।।१२।। वनाद्यवयवा[श्चत-शिंशपाद्यङ]ध्रिपादयः । दूरस्थानामिह भ्रान्तियुक्ता भेदाविनिश्चयात् ।।१३।। तथा वनादिदृष्टान्तः सौगतानां न युज्यते । गुणाद्यभेद-विभ्रान्तौ युक्त एवेत्यसङ्गतम् ।।१४।। न ह्य कान्तेन भिन्नत्वं गुणादीनां च तद्वतः । [श्यते यद्बलादत्राऽप्यभेद-भ्रान्ति-कल्पनम् ॥१५॥ ततोऽप्रतीतिरत्राऽपि समानैव तथा सति । अगुषु स्थूलबुद्धावप्यस्य दृष्टान्ततो भवेत् ।।१६।। प्रधानस्थूलसापेक्षा स्थूलधीः परमाणुप। स्थाणौ पुरुषवीर्यद्वदतस्मिस्तद्ग्रहत्वतः ।।१७। प्रधानः पुरुषो नो वेत्स्थाणौ च न हि तद्ग्रहः । इति गुण्यादिसिद्धर्न स्थूलधीरणुसम्भवा ।।१८।। इति चेद्गुण-गुण्यादावपि चैवमभेदधीः । न स्यादत्रापि न ह्यस्ति प्रधाना काऽप्यभेदधीः ।।१।।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org