________________
१४. ...........
वास्तवाभेद-विद्वेषे न हि कापि प्रधानधीः । भ्रान्तत्वादप्रधाना हि गुण-गुण्याद्यभेदधीः ॥२०॥ ततः प्रधानहीनेऽस्मिन्नभेदग्रहणे भवन् । अतस्मिंस्तद्ग्रहो हेतुर्नान्यत्रापीष्टसाधनम् ॥२१॥ तस्मादेवमणुष्वेव स्थूलबुद्धिमनिच्छता। वस्तुवृत्त्यैव वक्तव्या गुण-गुण्याद्यभेदधीः॥२२।। किचात्राऽभेदधीश्चेत्स्याद् भ्रान्तैव कथमेनया। पटाद्यवयवी सिद्धय प्रमालक्षणहीनया ॥२३॥ प्रत्ययान्तरतः सिद्धिः पटादेरित्यसङ्गतम् । पटादि वित्तौ न ह्यस्ति युगपढ़ेदनद्वयम् ।।२४।। क्रमेणाऽन्यत्र नैवास्ति वेदन-द्वय-दर्शनम् । पटादिग्रहतोऽन्यवाभेदधीरित्यनिश्चयात् ।।२।। निश्चयात्मकमध्यक्षमिष्यते च परैस्ततः । पटादिग्राहकं न स्यादभ्रान्तज्ञान-हानितः ।।२६।। किञ्च धी-द्वयमिष्टं चेदभेदप्रत्यये(यो) कथम् । अप्रतीते पटादौ स्यात्तदभेदे न धीरियम् ॥२७॥ तन्तवो हि पटीभूता इत्यादिप्रत्ययैः सदा । पटाद्यभेद वित्तिश्च न चाज्ञाते तथा ग्रहः ॥२८।। तस्मादेकैव धीरत्र, साऽपि भ्रान्तैव, तत्कथम । पटादिसिद्धिरभ्रान्तबुद्धितोऽभीष्टसिद्धिता ||२६|| पटाद्यसिद्धिपक्षे च योगे सौगततुल्यता। भवत्येवेति तद्ग्राहि ज्ञानमभ्रान्तमिष्यताम् ॥३०॥ पटादावेव तद्ग्राहि ज्ञानमभ्रान्तमञ्जसा । निधित्वात् , न चाभेदे, समबाधत्व इत्यसत् ॥३१।।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org