SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ४६ स्याद्वाद सिद्धौ एकबुद्धौ न युक्ता हि भ्रान्ताऽभ्रान्तस्वरूपता । विरोधादविरोधे स्यादेकस्यानेकरूपता ||३२|| तथा च गुण-गुण्यादेरभेदेऽप्यविरुद्धता | सिद्धेत्यभ्रान्तिरेवेयं गुण- गुण्याद्यभेदधीः ॥३३॥ ततो हेतोश्च सिद्धत्वं, साध्ये सत्येव सम्भवात् । अविना[भाविनश्चे ]ति नास्यासिद्ध्यादिदूषणम् ||३४|| प्रान्ते साध्य-वैकल्यमपि नैवात्र सम्भवेत । संख्यात्वे गुणादेश्च परेषां ह्यविवादतः ||३५|| द्वौ धौ पड़ रसा, द्वे च सामान्ये, बहवो मताः । विशेषाः, समवायः स्यादेक इत्यादिदर्शनात् ||३६|| वास्तव न[ गुणादौ स्यात् संख्या, ] सा ह्य् पचारतः । तेषां तन्न गुणादीनां तादात्म्यं च तयेत्यसत् ||३७|| असतो हि समारोप उपचारस्तथा सति । , अभाव एव संख्यायाः पृथिव्यादौ च सम्भवेत् ||३८|| एकत्रास्या हि भाक्तत्वे नैवान्यत्रापि सत्यता । निर्बाधत्वेन सत्यत्वं [सम्मतं सर्ववादिनाम् ] ||३६|| वास्तवी चेद् गुणादौ स्यात्संख्या, स्थुगुणिनो गुणाः । गुणसूत्रे' गुणत्वेन संख्याया पठितत्वतः ॥४०॥ गुणादेगुणवत्त्वं च नेष्यते न्यायवेदिभिः । गुणाः स्यूर्निगुणा इष्टाः शास्त्रे हि न्यायवेदिभिः ] ||४१|| १ " रूपरसगन्धस्पर्शाः संख्याः परिमाणानि पृथक्त्वं संयोगविभागों परस्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नाश्च गुणाः । " -- ( वैशेषिकदर्शनसूत्र १ - १ - ६ ) इत्यत्र गुणप्रतिपाद के सूत्रे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003653
Book TitleSyadvadasiddhi
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1950
Total Pages172
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy