________________
१४. .......................
निर्गुणत्वं गुणादीनामद्रव्यत्वेन कर्मवत् । इतीयमनुमा तत्र बाधिका चेत्, तदप्यसत् ॥४२॥ कम स्यात्पञ्चधेत्युक्ते गुणवत्त्वं हि कर्मणाम् । ततः स्यात्साध्यवैकल्यं दृष्टान्तस्येह कर्मणः ॥४३।। गुणवत्त्वे गुणादीनां द्रब्यत्वस्यैव सिद्धितः । अद्रव्यत्वस्य हेतोश्च स्यादसिद्धित्वमञ्जसा ॥४४॥ हेतोरस्माद्गुणादीनां निर्गुणत्वेऽस्य सिद्धिता । हेतोः, इत्यपि नैव स्यादन्योन्याश्रयदूषणात् ।।४।। निर्गुणत्वमतो हेतोगुणादीनां हि सिद्धयति । निर्गुणत्वस्य सिद्धेश्च तेषामद्रव्यता भवेत् ॥४६।। तस्मान्न चेद्गुणादीनां संख्या, संख्यैव न कचित् । सिद्धयेदिति गुणादेश्च संख्या-तादात्म्यमिष्यताम् ।।४।। किञ्चोपचारतः संख्या गन्धादौ चेत्तथा भवेत् । पृथक्त्वं चोपचारेण गुणत्वस्यविशेषतः ॥४८॥ ततो पृथक्त्वमेव स्याद्गन्धादेस्तद्वतो न किम् । पृथक्त्वस्योपचारे स्यादपृथक्त्वं हि वास्तवम् ।।४६॥ आकारभेदभावेन गन्धादेस्तद्वतो भवेत् । भेद एव पृथक्त्वस्यावास्तवत्वे हि नापरम् ॥५०॥ पृथक्त्वमेव गन्धादौ तद्भदोऽपि न बुध्यताम् । वैलक्षण्यं स्वरूपस्य तद्भ दो हि विभाव्यते ॥५१॥ इत्यप्यसारमेवं हि पृथक्त्वं स्यान्निरर्थकम् । तद्वैलक्षण्यमात्रेण पृथिब्यादौ च भेदतः ।।५२।। ततः पृथक्त्वमिष्टं चेद्वास्तव, वास्तवी भवेत् । संख्याऽपीति गुणादेः, स्यात्तादात्म्यं च तयोः स्थितम् ॥५३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org