SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ४८ स्याद्वाद-सिद्धौ न हि स्यात्समवायेन तत्सम्बन्धः, तथा परैः । अनुक्तत्वाद्, गुणादौ च द्रव्यत्वस्यानुषञ्जनात् ।।५४।। समवायाच(यश्च)सम्बन्धः सम्बन्धादन्यतोऽथवा' । यद्य सम्बन्धनोऽयं स्यात् [संयोगोऽपि तथा भवेत] ||५५।। न सम्बध्नात्यसम्बद्धः परत्रैवमदर्शनात् । समवेतो हि संयोगो द्रव्यसम्बन्धकृन्मत: ।।६।। समवायान्तरेणास्य सम्बद्धेऽप्यनवस्थितिः । स्वतः सम्बन्ध एवास्य सम्बन्धत्वेन चेन्मतम् ॥५॥ यथा नान्योऽत्र सम्ब....................."दिरूपतः । स्वरूपमेव सम्बन्धः किं नैवं धर्मतद्वतोः ।।५।। किञ्चान्योन्याश्रयोऽपि स्यात्स्वतः सम्बन्धकल्पने । तद्धि सम्बन्धतासिद्धौ साऽपि तेनापि सिद्ध्यति ।।६।। सम्बन्धत्वं प्रतीत्यैव समवायस्य कल्प्यते । स्वतः सम्बन्धतो नेति [नान्योन्याश्रय] इत्यसत् ॥६॥ अप्रतीतेरतिव्याप्तेरभेदप्रत्ययादपि। समवायो न तन्नास्य सम्बन्धत्वं प्रतीतितः ॥६१।। समवाये प्रतीतिश्चेदध्यक्षमविवादता । निर्णयैकात्मना तेन ज्ञाते संशीत्ययोगतः ।।६।। सविकल्पकमध्यतं समवाये न चेद्यदि । [सविकल्प]कमस्तीति समवाये प्रतीतितः ।। ६३ ।। इत्यसन्न हि तज्ज्ञानं दृश्यते कापि सौगतैः । उच्चमानमिवाध्यक्षं जडबुद्धिवदेव वा ॥६४।। १ सम्बद्धो भवति तथाचानवस्थेति भावः । Jain Education International na For Private & Personal Use Only www.jainelibrary.org
SR No.003653
Book TitleSyadvadasiddhi
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1950
Total Pages172
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy