________________
संश्लेषज्ञानमेवेह तद्वतोऽवयवैरिदम् । इत्यप्यसत्तयोरत्र तादात्म्यस्यैव निर्णयात् ॥६॥ किञ्च सत्येव सम्बद्धविशेषणत्वसंज्ञके। सन्निकर्षेऽक्षजग्राह्यः समवायः परैर्मतः ।।६६।। तद्विशेषणभ(भा)वे स्यात्समवायोऽयमाश्रितः । गुणादिवत्तथा चास्यानाश्रितत्वं कथं भवेत् ॥६५॥ समवायान्तरापेक्षे सम्बन्धे हि स प्राश्रितः । नैतत्सम्बन्धतश्चेतिक तदपेक्षा स नेष्यते ॥६॥ तदपेक्षे हि सम्बन्धे समवायस्य कल्पिते । न स्थितिः पुनरप्यन्यसमवायप्रसङ्गतः ।।६।। तद्विशेषणभावाख्यसम्बन्धे तु न च (चा?) स्थितः । समवा...
........"||७०॥
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
तन्नो चेद्ब्रह्मनिर्णीतिरविवादा स्वतो भवेत् ।।५२।। न चैवं दृश्यते तत्र विवादस्यैव दर्शनात् । तथा च ब्रह्मनिर्णीतिः स्वतः स्यादिति दुर्मतम् ।।३।।
१ अस्य ग्रन्थस्योपलब्धैकमात्रमूडबिद्रीयताडपत्रप्रतौ पत्रसं० २३६ तः २४६ पर्यन्तम् । पुनः २५४ तमात्पत्रादारम्भः । एतन्मध्यस्थानि (२४७ तः २५३ पर्यन्तं) सप्त पत्राणि नोपलब्धानि । न ज्ञायतेऽत्र कियन्ति प्रकरणानि त्रुटितानि सन्ति । अत एवाग्रिमप्रकरणस्यापि आदिभागो त्रुटित एवोपलब्धः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org