Book Title: Syadvadasiddhi
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 141
________________ संश्लेषज्ञानमेवेह तद्वतोऽवयवैरिदम् । इत्यप्यसत्तयोरत्र तादात्म्यस्यैव निर्णयात् ॥६॥ किञ्च सत्येव सम्बद्धविशेषणत्वसंज्ञके। सन्निकर्षेऽक्षजग्राह्यः समवायः परैर्मतः ।।६६।। तद्विशेषणभ(भा)वे स्यात्समवायोऽयमाश्रितः । गुणादिवत्तथा चास्यानाश्रितत्वं कथं भवेत् ॥६५॥ समवायान्तरापेक्षे सम्बन्धे हि स प्राश्रितः । नैतत्सम्बन्धतश्चेतिक तदपेक्षा स नेष्यते ॥६॥ तदपेक्षे हि सम्बन्धे समवायस्य कल्पिते । न स्थितिः पुनरप्यन्यसमवायप्रसङ्गतः ।।६।। तद्विशेषणभावाख्यसम्बन्धे तु न च (चा?) स्थितः । समवा... ........"||७०॥ . . . . . . . . . . . . . . . . . . . . . . . . . . . . तन्नो चेद्ब्रह्मनिर्णीतिरविवादा स्वतो भवेत् ।।५२।। न चैवं दृश्यते तत्र विवादस्यैव दर्शनात् । तथा च ब्रह्मनिर्णीतिः स्वतः स्यादिति दुर्मतम् ।।३।। १ अस्य ग्रन्थस्योपलब्धैकमात्रमूडबिद्रीयताडपत्रप्रतौ पत्रसं० २३६ तः २४६ पर्यन्तम् । पुनः २५४ तमात्पत्रादारम्भः । एतन्मध्यस्थानि (२४७ तः २५३ पर्यन्तं) सप्त पत्राणि नोपलब्धानि । न ज्ञायतेऽत्र कियन्ति प्रकरणानि त्रुटितानि सन्ति । अत एवाग्रिमप्रकरणस्यापि आदिभागो त्रुटित एवोपलब्धः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172