________________
१०. वेदपौरुषेयत्व - सिद्धि:
अन्यैश्चाभ्यपगन्तब्य: पक्षे साध्यस्य च ग्रहः । न हि साकल्यतो व्याप्तिस्तत्रास्यानवबोधने ||१७|| साध्य-साधनयोब्योप्तेरसाकल्येन निरणये । साधनं गमकं न स्यात्तत्पुत्रत्वादिहेतुवत् ||१८|| स श्यामस्तस्य पुत्रत्वादन्यपुत्रवदित्यतः । साकल्य-व्याप्त्य निर्णीत्या श्यामत्वं हि न सिद्ध्यति ॥१६॥ अन्तर्व्याप्त्यनपेक्षायां दृष्टान्ते व्याप्ति-दर्शनात् । हेतुर्भवेदयं चेति हेत्वाभासो न कश्चन ||२०|| त्रिलक्षणं च तत्रास्ति पक्षधर्मत्व मुख्यकम् । ततोऽन्तर्याप्ति-वैकल्यादेवास्याहेतुता स्थिता ||२१|| ततोऽवश्यमपेक्षत्वाद्द्दष्टान्ते सत्यविस्फुटम् । तयैव गमकत्वाच्च ज्ञेयाऽन्तर्व्याप्तिरञ्जसा ||२२|| तथा च पक्ष एव स्यादविनाभाव निर्णयः । विपक्षे बाध-सामर्थ्यात्तन्नार्थापत्तिरप्रमा ॥ २३ ॥ इत्यर्थापत्तिप्रामाण्य - सिद्धिः ॥ ६ ॥
[ वेदपौरुषेयत्व - सिद्धि: ]
विपक्षे न तु बाधोऽस्ति ज्योतिःशास्त्रं ' हि वेदतः । अपौरुषेयतः सिद्धये नो चेदपि सर्ववित् ॥ १ ॥ ततोऽन्यथानुपपन्नत्वं तच्छास्त्राणां न युज्यते । अन्यथाऽप्युपपन्नत्वादिति चेदिदमप्यसत् ॥ २ ॥
१ ज्योतिःशास्त्रोपदेशः, स चापौरुषेयवेदादपि सिद्ध्यतीति न तदर्थं सर्वज्ञः स्वीकर्तव्य इति पूर्वपक्षिणो मीमांसकस्याशयः ।
Jain Education International
३३
For Private & Personal Use Only
www.jainelibrary.org