________________
१०. वेदपौरुषेयत्व-सिद्धिः इति चेत्तदनित्यत्वेऽप्येतज्ज्ञानं च सम्भवेत् । सादृश्ये ह्यथे-शब्दानां तत्सङ्कतस्य सम्भवः ॥ १५ ॥ ईगर्थस्य शब्दोऽयमीहग्वाचक इत्ययम् । सङ्केतः कल्पिते (तो) ह्यत्र नित्य-सामान्य-दूषणात् ।। १६ ।। व्यापि वा व्यक्तिनिष्ठ वा न हि नित्यं तदीक्ष्यते । व्यक्ति विनाऽप्यदृष्ट' चेदस्ति ब्रह्म न किं भवेत् ॥ १७ ॥ तत्सामान्येऽपि सादृश्यं भवत्येवान्यथा कथम् । सहशोऽयमनेनेति धीः सामान्यात्तु सा न हि ।।१८।। : एकत्वबुद्धिहेतुत्वं ह्यस्यान्यैश्चावकल्प्यते । सादृश्यं च न चानित्यं सर्वव्यक्त्युद्भवं हि तत् ।। १६ ।। सामान्यापेक्षया नित्यमनित्यं व्यक्त्यपेक्षया । तत्स्यात्सादृश्य एवाऽयं सङ्केतो युक्तिभावतः ॥ २० ॥ सादृश्ये यदि संङ्क तस्त द्विशेषः(ष)स्मृतिः कथम् । विशेषानुस्मृतौ हि स्याद्विशिष्टार्थावबोधनम् ॥ २१ ॥ इति चोद्य च तुल्यं स्यान्नित्यसामान्यवादिनाम् । व्यक्तेापिनि भिन्नेऽत्र तस्सङ्कतावकल्पनात् ॥ २२॥ . समवायेन सम्बद्धमिदं भिन्नमपीति चेत् । किं न तादात्म्यसम्बन्धो व्यक्ति सादृश्ययोरपि ।। २३ ।। जैनैः पौद्गलिकस्कन्धपरिणामस्य शब्दता। उच्यते, न च सम्बन्धो जडाणूनां स्वयं भवेत् ।। २४ ।। एकत्रोत्र-प्रविष्टानां तदैवान्यश्रुतिश्च न । इति चोद्य च वर्णानां व्यञ्जकेषु ध्वनिष्वपि ।। २५ ॥ तद्ध्वनीनां न वर्णत्वं न हि स्व-व्यञ्जकं स्वयम् । नाभावः सर्वदा वर्ण-तिरोभाव-प्रसङ्गतः ॥ २६ ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org