________________
स्याद्वाद-सिद्धौ
वीतरागस्य नेच्छाऽस्ति कथं स्याद्वक्तृतेत्यसत् । न हि स्यात्तया,स्याच्चेत् , तयाऽज्ञस्याऽस्तु शास्त्रवाक् ।।८।। * तदिच्छायामवक्तत्वाद्, गोत्र [प्रस्खलनादिषु । तदभावेऽपि वाग्दृष्ट (ष्टा), सा पुंज्ञानात्, न चेच्छया ।।।। सार्वज्ञ-सहजेच्छा तु विरागेऽप्यस्ति, सा हि न । रागाद्य पहता, तस्माद्भवेद्वक्तैव सर्ववित् ।। १० ।। पुरुष स्वादि] हेतुश्च नैव सर्वज्ञ-बाधकः । जैमिन्यादौ च तद्दृष्टेर्विरोधाभाव-निश्चयात् ॥ ११ ॥ किञ्चिद्रं तद्दृशिश्चेत्स्यात्सर्वज्ञऽप्यविरोधतः । विरोधो ह्यल्पयोश्च स्यादल्पो दीपान्धकारवत् ।। १२ ।। वेद-वाक्यं प्रमाणं न विरुद्धार्थावबोधनात् । उन्मत्त-वाक्यवत्तन्न भेदाभेदौ विरोधिनौ ।। १३ ॥ अर्थवादत्वमेकस्येत्येतत्प्रागेव दूषितम् । तन्न वेदाच्च तद्बाधस्तत्सर्वज्ञोऽस्त्यबाधतः ।। १४ ।। एवं सार्वज्ञय-सद्भावाद्भगवत्यर्हति स्फुटम् । अन्येष्वसम्भावाच्च स्यात्स वोपास्य इति स्थितम् ॥ १५ ॥ अपि चातीन्द्रियार्थत्वे पुवाक्यत्वान्न हि प्रमा। अर्हद्वाक्यं यथा बुद्धवाक्यमित्यपि दुर्मतम् ।। १६ ।। ऐन्द्रियार्थे हि वाग्दृष्टा दोषेणैवाप्रमाऽन्यथा । आप्तवाक चाप्रमा स्यात्तत्सा परोक्षेऽपि तेन सा ॥ १७॥
. १ वक्तृता इति शेषः । २ इच्छया । ३ इच्छया । ४ अज्ञस्य । ५ सर्वज्ञे ६ प्रमा च गुणेनैव । ७ अतीन्द्रियेऽर्थे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org