________________
* जगदीशमतनिरासः *
प्रतियोग्यविशेषिताऽखण्डभेदाभ्युपगमे च सर्वत्राऽखण्डाभाववत एवाखण्डाभावस्यैव वा हेतुत्वं स्यादिति बहु विप्लवेत ।
किञ्चैवं विशेष्यभागोऽपि व्यर्थत्वमाप्नुयात्कारणभेदस्यैवाखण्डस्य कारणतालक्षणत्वसम्भवात् । तस्मादिष्टसाधनत्वादिज्ञानकारणतावच्छेदकतयाऽतिरिक्तमेव परिणामविशेषरूपं नियतान्वयव्यतिरेकज्ञानव्यङ्ग्यं कारणत्वमभ्युपगन्तव्यम् ।
एतेन दण्डत्वादिकमेव कारणत्वं तस्यैव घटादिकार्यसम्बन्धितया ग्रहेऽनन्यथासिदेत्यादेॐ जयलता है
न चात एव तावदन्यतमभेदस्वाऽखण्डस्याभावत्वेनैव हेतुत्वमभ्युपगम्यत इति वाच्यम्, प्रतियोग्यविशेषिताऽखण्डाभावसचे प्रमाणाभावात् प्रतियोग्यविशेषिताऽखण्डभेदाभ्युपगमे च सर्वत्र एवं अखण्डाभाववतः = अखण्डाभावाधिकरणस्य एव हेतुत्वं स्यात् । ततोऽपि लाघवात् अखण्डाभावस्यैव वा हेतुत्वं स्यात् । वस्तुतः प्रतियोग्यविशेषितरूपेणाखण्डानावानां जनकतायामिय जनकतावच्छेदकतामामप्यन्यथासिद्धत्वम् । अन्यथा तावद्दण्डगगनाद्यन्यतमत्वलक्षणाखण्डभेदव्यक्तिमत्त्वेनापि जनकनापातादित्यपि
बदन्ति ।
यत्तु जगदीशेन 'गन्धादिकं प्रति गन्धत्वाद्यवच्छिन्नप्रतियोगिताका भावस्येव रूपरसगन्धान्यतमत्वावच्छिन्नप्रतियोगिताका भावस्याखण्डस्य तद्व्यक्तित्वेन हेतुत्वं, अन्यथा रूपादिकमिव शब्दबुद्धयादिकमन्तर्भाव्य पञ्चतुःपञ्चकान्यतमत्वं तदवच्छिन्नप्रतियोगिताकाभावव्यक्तीनामप्यखण्डतदूव्यक्तित्वेन गन्धादिहेतुतायामनन्तकार्यकारणभावापत्तेः । न चैवं गन्धत्वावच्छिन्नप्रतियोगिताका भावस्यापि तद्व्यक्तित्वेन गन्धहेतुत्वं न स्यात्, इष्टत्वादिति कारणतावादेऽभिहितम्, तन्न चारुतया चकास्ति एवं सति विशेषकार्यकारणभावस्योच्छेदापत्तेः जन्यभावत्व - द्रव्यत्वाभ्यामेव कार्यकारणभावविश्रामात् ।
अत्रैव दोषान्तरमाह किञ्च एवं तद्व्यक्तित्वेनाऽखण्डाभावस्यैव कारणत्वस्वीकारे अनन्यासिद्ध नियतपूर्ववृत्तित्वं कारणत्वमित्यत्र विशेष्यभागः नियतपूर्ववृत्तित्वांश: व्यर्थत्वं = नैष्फल्यं आप्नुयात् । कुतः ? अनन्यथासिद्धत्वस्य = अन्यथासिद्धभेदस्य अकारणभेदस्य = यावदकारणभेदस्य एवं अखण्डस्य कारणतालक्षणत्वसम्भवात् तस्यानतिप्रसक्तानुगतत्वात् ।
-
-
८७३
=
निगमयति तस्मात् इष्टसाधनत्वादिज्ञानकारणतावच्छेदकतया 'स्वर्गकामां यजत' इत्यादी विधिप्रत्ययार्थेष्टसाधनत्वकृतिसाध्यत्वादिगोचरज्ञानकारणतावच्छेदकविधया अतिरिक्तमेव कारणात्कथञ्चित्पृथग्भूतं परिणामविशेषरूपं नियतान्वयव्यतिरेकव्यङ्ग्यं कारणत्वं = कारणत्वपदप्रतिपाद्यं अभ्युपगन्तव्यम्
=
युक्तचैतत् यतो घटादिकारणताया: कारणीभूतदण्डादिस्वरूपत्वं तेन समं तस्याधाराधेयभावानुपपत्तिः । अभेदेपि तदभ्युपगमें 'दण्डी घटकारणवानि' त्यादिप्रतीत्यापत्तेः । दण्डत्वादिस्वरूपत्वे च संप्रतियोगित्वानुपपत्तिः, जाते: निष्प्रतियांगिकत्वात्, दण्डत्वाद्यवच्छिन्नत्वानुपपत्तिश्च अभेदेऽवच्छेद्यावच्छेदकभावविरहात् । अभेदेऽपि तदङ्गीकारे दण्डवेन घटकारणत्वमितिवत् दण्डवेन दण्डत्वमित्यादिप्रतीत्यापत्तेः । एतेन दण्डत्वादिकमेव कारणतावच्छेदकस्वरूपं कारणत्वं, तस्य = cusic: एव घटादिकार्यसम्बन्धितया ग्रहे अनन्यथासिद्धेत्यादेः = अनन्यथ सिद्धनियतपूर्ववर्तिताकत्वस्प व्यञ्जकत्वं = तज्ज्ञानजनकत्वं तस्य च कारणसे मेदकूट या तादृश एक भेद का निवेश करने की वजह अननुगम आदि दोष को भी अवकाश नहीं रहता है। न त । मगर यह तैयायिकवक्तन्य भी असंगत है । इसका कारण यह है कि कारणतालक्षण में निरुक्त भेदकूट का निवेश किया जाय तब भेदकूट की प्रतियोगिकोटि में उदासीन का प्रवेश किया जाय या नहीं ? इस विषय में कोई विनिगमक नहीं है। अतः भेदप्रतियोगी का निश्चय करना मुश्किल बन जाता है । प्रतियोगी का निर्णय न होने पर भेदकूट का निश्चय भी कैसे हो सकेगा ? अतः भेदकूट का निवेश नहीं किया जा सकता। यदि इसी दोष की वजह भेदकूट का प्रवेश न कर के प्रतियोगि अविशेषित अखण्डाभाव हो हेतु बन जायेंगा तब तो भारी अव्यवस्था हो जायेगी । इस परिस्थिति में दण्ड, चक्र आदि को घटकारण कहना मुश्किल हो जायेगा । दूसरी बात यह है कि इस तरह तो कारणतावारीर का विशेष्यांश भी निरर्थक हो जायेगा, क्योंकि अखण्ड अकारणभेद को ही कारणता का लक्षण कहा जा सकता है। इसलिए यही मुनासिब है कि इष्टसाधनताज्ञान के कारणतावच्छेदकविधया अतिरिक्त परिणामविशेषस्वरूप कारणता का ही स्वीकार किया जाप, जो नियत अन्वय और व्यतिरेक से व्यंग्य होता है एवं सर्व कारण में अनुगत होता है ।
पक्षधरमिश्रमतनिकन्दन