Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 339
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । ३२२ धूग-सु-स्तोः परस्मै ।।४।४।८५।। [धूग्सुस्तोः] धूम् च सुश्च स्तुश्च = धूम्सुस्तु, तस्मात् । [परस्मै] परार्थं पदं = परस्मैपदम्, तस्मिन् । ‘ते लुग्वा' (३।२।१०८) विभक्त्या सह पदलुक् । 'परा-ऽऽत्मभ्यां डे' (३।२।१७) इति चतुर्थीअलुप्समासः । [अधावीत्] 'धूग्ट्' (१२९१)- 'धूग्श् वा कम्पने' (१५२०) धू । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । अनेन इट् । 'सिचि परस्मै समानस्याऽडिति' (४।३।४४) वृ० औ । ‘इट ईति' (४।३।७१) सिच्लुक् । 'समानानां०' (१।२।१) दीर्घः । 'ओदौतोऽवाव्' (१।२।२४) आव् । ‘अड् धातोरादि०' (४।४।२९) अट् । [अधाविष्टाम्] धू । अद्यतनी ताम् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । अनेन इट् । 'सिचि परस्मै०' (४।३।४४) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । 'नाम्यन्तस्था-कवर्गात्०' (२।३।१५) षत्वम् । 'तवर्गस्य श्चवर्ग०' (१।३६०) त० → ट० । 'अड् धातोरादि०' (४।४।२९) अट् । [अधाविषुः] धू । अद्यतनी अन् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । अनेन इट् । 'सिचि परस्मै०' (४।३।४४) व० औ । 'ओदौतोऽवाव' (११२१२४) आव । 'सिज-विदोऽभवः' (४।२।९२) अन० → पस० → उस० । (२।३।१५) षत्वम् । 'अड् धातोरादि०' (४।४।२९) अट् । [असावीत्] 'धुंग्ट् अभिषवे' (१२८६) षु । 'पुंक् प्रसवैश्वर्ययोः' (१०७८) षु । 'षः सोऽष्ट्यै-ष्टिव-ष्वष्कः' (२।३।९८) सु । अद्यतनी दि →त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । अनेन इट् । 'सिचि परस्मै०' (४।३४४) वृ० औ । 'इट ईति' (४१३७१) सिचलुक । 'समानानां०' (१।२।१) दीर्घः । 'ओदौतोऽवाव्' (१।२।२४) आव् । 'अड् धातोरादि०' (४।४।२९) अट् । [असाविष्टाम्] सु । अद्यतनी ताम् । 'सिजद्यतन्याम्' (३।४५३) सिच् । अनेन इट् । 'सिचि परस्मै०' (४।३।४४) वृ० औ । 'ओदौतोऽवाव्' (११२१२४) आव् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'तवर्गस्य श्चवर्ग०' (१३।६०) त० → ८० । 'अड् धातोरादि०' (४।४।२९) अट् । [असाविषुः] सु । अद्यतनी अन् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । अनेन इट् । 'सिचि परस्मै०' (४।३।४४) वृ० औ । ‘ओदौतोऽवाव्' (१।२।२४) आव् । 'सिज्-विदोऽभुवः' (४।२।९२) अन्० → पुस्० → उस्० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'अड् धातोरादि०' (४।४।२९) अट् । [अस्तावीत्] 'ष्टुंगा स्तुतौ' (११२४) ष्टु । 'षः सोऽष्ट्यै-ष्टिव-ष्वष्कः' (२।३।९८) स्तु । 'निमित्ताभावे०' (न्या० सं० वक्षस्कार (१)/सूत्र (२९)) स्तु । अद्यतनी दि →त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । अनेन इट् । 'सिचि परस्मै०' (४।३।४४) वृ० औ । ‘इट ईति' (४।३७१) सिच्लुक् । 'समानानां०' (१।२।१) दीर्घः । 'ओदौतोऽवाव्' (१।२।२४) आव् । 'अड् धातोरादि०' (४।४।२९) अट् । [अस्ताविष्टाम्] स्तु । अद्यतनी ताम् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । अनेन इट् । 'सिचि परस्मै०' (४।३।४४) वृ० औ । 'ओदौतोऽवाव' (११२१२४) आव् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'तवर्गस्य श्ववर्ग०' (१।३।६०) त० → ८० । 'अड् धातोरादि०' (४।४।२९) अट् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408