________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
३२२
धूग-सु-स्तोः परस्मै ।।४।४।८५।।
[धूग्सुस्तोः] धूम् च सुश्च स्तुश्च = धूम्सुस्तु, तस्मात् ।
[परस्मै] परार्थं पदं = परस्मैपदम्, तस्मिन् । ‘ते लुग्वा' (३।२।१०८) विभक्त्या सह पदलुक् । 'परा-ऽऽत्मभ्यां डे' (३।२।१७) इति चतुर्थीअलुप्समासः ।
[अधावीत्] 'धूग्ट्' (१२९१)- 'धूग्श् वा कम्पने' (१५२०) धू । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । अनेन इट् । 'सिचि परस्मै समानस्याऽडिति' (४।३।४४) वृ० औ । ‘इट ईति' (४।३।७१) सिच्लुक् । 'समानानां०' (१।२।१) दीर्घः । 'ओदौतोऽवाव्' (१।२।२४) आव् । ‘अड् धातोरादि०' (४।४।२९) अट् ।
[अधाविष्टाम्] धू । अद्यतनी ताम् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । अनेन इट् । 'सिचि परस्मै०' (४।३।४४) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । 'नाम्यन्तस्था-कवर्गात्०' (२।३।१५) षत्वम् । 'तवर्गस्य श्चवर्ग०' (१।३६०) त० → ट० । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अधाविषुः] धू । अद्यतनी अन् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । अनेन इट् । 'सिचि परस्मै०' (४।३।४४) व० औ । 'ओदौतोऽवाव' (११२१२४) आव । 'सिज-विदोऽभवः' (४।२।९२) अन० → पस० → उस० । (२।३।१५) षत्वम् । 'अड् धातोरादि०' (४।४।२९) अट् ।
[असावीत्] 'धुंग्ट् अभिषवे' (१२८६) षु । 'पुंक् प्रसवैश्वर्ययोः' (१०७८) षु । 'षः सोऽष्ट्यै-ष्टिव-ष्वष्कः' (२।३।९८) सु । अद्यतनी दि →त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । अनेन इट् । 'सिचि परस्मै०' (४।३४४) वृ० औ । 'इट ईति' (४१३७१) सिचलुक । 'समानानां०' (१।२।१) दीर्घः । 'ओदौतोऽवाव्' (१।२।२४) आव् । 'अड् धातोरादि०' (४।४।२९) अट् ।
[असाविष्टाम्] सु । अद्यतनी ताम् । 'सिजद्यतन्याम्' (३।४५३) सिच् । अनेन इट् । 'सिचि परस्मै०' (४।३।४४) वृ० औ । 'ओदौतोऽवाव्' (११२१२४) आव् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'तवर्गस्य श्चवर्ग०' (१३।६०) त० → ८० । 'अड् धातोरादि०' (४।४।२९) अट् ।
[असाविषुः] सु । अद्यतनी अन् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । अनेन इट् । 'सिचि परस्मै०' (४।३।४४) वृ० औ । ‘ओदौतोऽवाव्' (१।२।२४) आव् । 'सिज्-विदोऽभुवः' (४।२।९२) अन्० → पुस्० → उस्० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अस्तावीत्] 'ष्टुंगा स्तुतौ' (११२४) ष्टु । 'षः सोऽष्ट्यै-ष्टिव-ष्वष्कः' (२।३।९८) स्तु । 'निमित्ताभावे०' (न्या० सं० वक्षस्कार (१)/सूत्र (२९)) स्तु । अद्यतनी दि →त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । अनेन इट् । 'सिचि परस्मै०' (४।३।४४) वृ० औ । ‘इट ईति' (४।३७१) सिच्लुक् । 'समानानां०' (१।२।१) दीर्घः । 'ओदौतोऽवाव्' (१।२।२४) आव् । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अस्ताविष्टाम्] स्तु । अद्यतनी ताम् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । अनेन इट् । 'सिचि परस्मै०' (४।३।४४) वृ० औ । 'ओदौतोऽवाव' (११२१२४) आव् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'तवर्गस्य श्ववर्ग०' (१।३।६०) त० → ८० । 'अड् धातोरादि०' (४।४।२९) अट् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org