SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥ ३२३ [अस्ताविषुः] स्तु । अद्यतनी अन् । 'सिजद्यतन्याम्' (३।४५३) सिच् । अनेन इट् । “सिचि परस्मै०' (४।३।४४) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । 'सिज्-विदोऽभुवः' (४।२१९२) अन्० → पुस्० → उस् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'अड् धातोरादि०' (४।४।२९) अट् । [अधोष्ट, अधविष्ट] धू । अद्यतनी त । 'सिजद्यतन्याम्' (३।४५३) सिच् । 'धूगौदितः' (४।४।३८) वा इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ट० । 'अड् धातो०' (४।४।२९) अट् । [असोष्ट] 'पुंग्ट् अभिषवे' (१२८६) षु । 'षः सोऽष्ट्यै-ष्टिव-ष्वष्कः' (२।३।९८) सु । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'अड् धातोरादि०' (४।४।२९) अट् । एवमग्रेऽपि । धूगो विकल्पे, सु-स्तुभ्यां च प्रतिषेधे प्राप्ते वचनम् ।।छ।। यमि-रमि-नम्यातः सोऽन्तश्च ।।४।४।८६।। [यमिरमिनम्यातः] यमिश्च रमिश्च नमिश्च आच्च = यमिरमिनम्यात्, तस्मात् । [सः] स प्रथमा सि । [अन्तः] अन्त प्रथमा सि । [च] च प्रथमा सि । [अयंसीत्] 'यमूं उपरमे' (३८६) यम् । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दिस्योः' (४।३।६५) ईत् → ई । अनेन सकारः-इट् च । 'इट ईति' (४।३।७१) सिच्लोपः । 'समानानां तेन दीर्घः' (१।२।१) दीर्घः । ‘अड् धातोरादि०' (४।४।२९) अट् । [अयंसिष्टाम्] यम् । अद्यतनी ताम् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । अनेन सकारः-इट् च । 'नाम्यन्तस्था-' कवर्गात्' (२।३।१५) षत्वम् । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ८० । 'अड् धातोरादि०' (४।४।२९) अट् । [अयंसिषुः] यम् । अद्यतनी अन् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । अनेन सकारः-इट् च । ‘सिज्-विदोऽभुवः' (४।२।९२) अन्० → पुस्० → उस्० । 'नाम्यन्तस्था-कवर्गात्' (२।३।१५) षत्वम् । 'अड् धातोरादि०' (४।४।२९) अट् । [व्यरंसीत्] 'रमिं क्रीडायाम्' (९८९) रम्, विपूर्व० । अद्यतनी दि → त् । ‘सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३६५) ईत् →ई । अनेन सकारः-इट च । 'इट ईति' (४३७१) सिचलुक । 'समानानां तेन०' । (१।२।१) दीर्घः । 'अड़ धातोरादि०' (४।४।२९) अट् । [व्यरंसिष्टाम्] रम्, विपूर्व० । अद्यतनी ताम् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । अनेन सकारः-इट् च । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ८० । 'अड् धातोरादि०' (४।४।२९) अट् । व्यरंसिषुः] रम्, विपूर्व० । अद्यतनी अन् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । अनेन सकारः इट् च । ‘सिज - विदोऽभुवः' (४।२।९२) अन्० → पुस्० →उस० । 'नाम्यन्तस्था०' (२०३।१५) षत्वम् । 'अड् धातोरादि०' (४।४।२९) अट् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy