SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । [अनंसीत्] 'णमं प्रहृत्वे' (३८८) णम् । 'पाठे धात्वादेर्णो नः' (२।३।९७) नम् । अद्यतनी दि त् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'स: सिजस्तेर्दि-स्यो:' | ४ | ३ | ६५ ) ईत् ई । अनेन सकारः - इट् च । 'इट ईति' ( ४ | ३ |७१) सिच्लुक् । 'समानानां०' (१।२।१) दीर्घः । अट् । ३२४ [अनंसिष्टाम्] नम् । अद्यतनी ताम् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । अनेन सकारः - इट् च । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'तवर्गस्य श्चवर्ग ० ' (१।३।६० ) त०ट० । 'अड् धातोरादि०' (४।४।२९ ) अट् । [ अनंसिषुः ] नम् । अद्यतनी अन् । 'सिजद्यतन्याम्' (३|४|५३) सिच् । अनेन सकारः- इट् च । 'सिज्-विदोऽभुवः ' (४।२।९२) अन्० पुस्० उस्० । 'नाम्यन्तस्था०' (२।३।१५ ) षत्वम् । 'अड् धातोरादि०' (४।४।२९) अट् । [ अयासीत् ] 'यांक् प्रापणे' (१०६२) या । अद्यतनी दित् । 'सिजद्यतन्याम्' (३|४|५३) सिच् । अनेन सकारःइट् च । शेषं पूर्ववत् । [ अयासिष्टाम् ] या । अद्यतनी ताम् । 'सिजद्यतन्याम्' (३|४|५३) सिच् । अनेन सकारः- इट् च । शेषं पूर्ववत् । [अयासिषुः] या । अद्यतनी अन् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । अनेन सकारः - इट् च । शेषं पूर्ववत् । [अग्लासीत्] ‘ग्लैं हर्षक्षये' (३१) ग्लै । 'आत् सन्ध्यक्षरस्य' (४।२।१) ग्ला । अद्यतनी दि → त् । ‘सिजद्यतन्याम्’ ( ३।४।५३) सिच् । अनेन सकारः- इट् च । शेषं पूर्ववत् । [ अग्लासिष्टाम् ] ग्ला । अद्यतनी ताम् । 'सिजद्यतन्याम्' (३|४|५३) सिच् । अनेन सकारः - इट् च । शेषं पूर्ववत् । [ अग्लासिषुः ] ग्ला । अद्यतनी अन् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । अनेन सकारः इट् च । शेषं पूर्ववत् । [ अदरिद्रासीत्, अदरिद्रीत्] 'दरिद्राक् दुर्गतौ' (१०९२) दरिद्रा । अद्यतनी दित् । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । अनेन सकारः-इट् च । आलोपपक्षे 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । आलुक् । शेषं पूर्ववत् । 'अड् धातोरादि०' (४।४।२९) अट् । [अदरिद्रासिष्टाम्, अदरिद्रिष्टाम् ] दरिद्रा । अद्यतनी ताम् । 'सिजद्यतन्याम्' (३|४|५३) सिच् । अनेन सकारः- इट् च । आलोपपक्षे ‘स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । आलुक् । शेषं पूर्ववत् । 'अड् धातोरादि० ' ( ४।४।२९) अट् । [अदरिद्रासिषुः, अदरिद्रिषुः ] दरिद्रा । अद्यतनी अन् । 'सिजद्यतन्याम्' (३|४|५३) सिच् । अनेन सकारः - इट् च । 'सिज् - विदोऽभुवः' (४।२ । ९२ ) अन्० पुस्० उ० । आलोपपक्षे 'स्ताद्यशितोऽत्रोणादेरिट्' ( ४ | ४ | ३२ ) इट् । आलुक् । शेषं पूर्ववत् । 'अड् धातोरादि०' (४।४।२९) अट् । [ आयंस्त दण्डः स्वयमेव ] आ-यम् । आयंसीत् दण्डं दण्डी, स एवं विवक्षते नाहं आयंसम् (आयंसिषम् ) किन्तु आयंस्त दण्डः स्वयमेव । अद्यतनी त । 'सिजद्यतन्याम् ( ३।४।५३) सिच् । [ उपायंस्त दण्डः स्वयमेव] उप-यम् । उपायंसीत् दण्डं दण्डी, स एवं विवक्षते नाहं उपायंसम् ( उपायंसिषम् ) किन्तु उपायंस्त । अद्यतनी त । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । [ अरस्त दण्डः स्वयमेव ] रम् । अरंस्त दण्डं दण्डी, स एवं विवक्षते नाहं रममाणम् (अरंसि ) किन्तु अरंस्त । अद्यतनी त । 'सिजद्यतन्याम्' (३|४|५३) सिच | 'अड् धातोरादि०' (४।४।२९) अट् । [ अनंस्त दण्डः स्वयमेव] अनंसीत् दण्डं दण्डी, स एवं विवक्षते नाहं अनंसम् ( अनंसिषम् ) किन्तु अनंस्त दण्डः स्वयमेवं । अंद्यतनी त । ‘सिजद्यतन्याम्' (३|४|५३) सिच् । 'अड् धातोरादि० ' ( ४।४।२९) अट् । [ अमास्त धान्यं चैत्रः ] 'मांक मान- शब्दयोः' (११३७) मा । अद्यतनी त । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy