Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥
ञि - ख्णमोर्वा ||४|४|१०६ ||
[ ञिखणमो : ] ञिश्च ख्णम् च = ञिख्णमौ, तयोः = ञिखामोः । सप्तमी ओस् ।
[वा ] वा प्रथमा सि ।
[ अलाभि, अलम्भि ] लभ् । अद्यतनी त । 'भाव- कर्मणोः ' ( ३।४।६८) ञिच् इतलोपश्च । 'अड् धातोरादि० ' (४।४।२९) अट् । अनेन वा नोऽन्तः । ' ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः आ ।
[लाभलाभम्, लम्भंलम्भम् ] अभीक्ष्णं लम्भनं पूर्वम् । 'ख्णम् चाभीक्ष्ण्ये' (५।४।४८) ख्णम्प्र० वा नोऽन्तः । ‘ञ्णिति' ( ४ । ३ । ५० ) उपान्त्यवृद्धिः आ । 'भृशा - ऽऽभीक्ष्ण्या - ऽविच्छेदे द्विः ० ' (७।४।७३) द्विः 'अव्ययस्य' (३।२।७) सिलुप् । । छ ||
उपसर्गात् खल्घञोश्च ||४|४|१०७ ||
[ उपसर्गात्] उपसर्ग पञ्चमी इसि ।
[खल्घञोः ] खल् च घञ् च = खल्घञौ, तयोः
[च] च प्रथमा सि ।
=
आ ।
खल्घञोः । सप्तमी ओस् ।
[ईषत्प्रलम्भम्] लभ्, ईषत् प्रपूर्व० । ईषदनायासेन प्रलभ्यते । 'दुः- स्वीषतः कृच्छ्राऽकृच्छ्रार्थात् खल्' (५।३।१३९) खल्प्र० । अनेन नोऽन्तः ।
३३७
[ईषदुपलम्भम्] लभ्, ईषत् उपपूर्व० । ईषदनायासेन उपलभ्यते । 'दुः- स्वीषतः कृच्छ्रा - ऽकृच्छ्रार्थात् खल्' (५।३।१३९) खलप्र० । अनेन नोऽन्तः ।
[दुष्प्रलम्भम् ] लभ्, दुः- प्रपूर्व० । दुःखेनायासेन प्रलभ्यते । 'दुः- स्वीषतः कृच्छ्रा - ऽकृच्छ्रार्थात् खल्' (५|३|१३९ ) खलप्र० । अनेन नोऽन्तः ।
Jain Education International
अम् । अनेन
। प्रथमा सि ।
[सुप्रलम्भम् ] लभ्, सु-प्रपूर्व० । सुखेनानायासेन प्रलभ्यते । 'दुः- स्वीषतः ० ' ( ५ । ३ । १३९) खल्प्र० । अनेन नोऽन्तः । [प्रलम्भः] प्रलम्भनम् । ‘भावा - ऽकर्त्रीः ' ( ५।३।१८) घञ्प्र० । अनेन नोऽन्तः ।
[उपलम्भः] उपलम्भनम् । 'भावा - ऽकर्त्री : ' ( ५।३।१८ ) घञ्प्र० । अनेन नोऽन्तः ।
[विलम्भः] विलम्भनम् । 'भावा - ऽकर्त्रीः ' ( ५।३।१८ ) घञ्प्र० । अनेन नोऽन्तः ।
[प्रालम्भि] प्र-लभ् । अद्यतनी त । 'भाव-कर्मणोः' ( ३।४।६८) ञिच् इतलोपश्च । 'अड् धातोरादि०' (४।४।२९) अट् । अनेन नोऽन्तः ।
[प्रलम्भप्रलम्भम् ] अभीक्ष्णं प्रलम्भनं पूर्वम् । 'ख्णम् चाभीक्ष्ण्ये' (५।४।४८) ख्णम्प्र० अम् । अनेन नोऽन्तः । 'भृशाऽऽभीक्ष्ण्याऽविच्छेदे० ' ( ७।४।७३) द्विः ।
[लाभो वर्त्तते] लम्भनं = लाभः । ‘भावा-ऽकर्त्रा:' ( ५।३।१८) घञ्प्र० अ । ञ्णिति' ( ४ | ३ |५०) उपान्त्यवृद्धिः
त्रि- ख्णमोर्नित्यार्थमुपसर्गादेव खल् घञोरिति नियमार्थं वचनम् ||छ ||
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408