SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥ ञि - ख्णमोर्वा ||४|४|१०६ || [ ञिखणमो : ] ञिश्च ख्णम् च = ञिख्णमौ, तयोः = ञिखामोः । सप्तमी ओस् । [वा ] वा प्रथमा सि । [ अलाभि, अलम्भि ] लभ् । अद्यतनी त । 'भाव- कर्मणोः ' ( ३।४।६८) ञिच् इतलोपश्च । 'अड् धातोरादि० ' (४।४।२९) अट् । अनेन वा नोऽन्तः । ' ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः आ । [लाभलाभम्, लम्भंलम्भम् ] अभीक्ष्णं लम्भनं पूर्वम् । 'ख्णम् चाभीक्ष्ण्ये' (५।४।४८) ख्णम्प्र० वा नोऽन्तः । ‘ञ्णिति' ( ४ । ३ । ५० ) उपान्त्यवृद्धिः आ । 'भृशा - ऽऽभीक्ष्ण्या - ऽविच्छेदे द्विः ० ' (७।४।७३) द्विः 'अव्ययस्य' (३।२।७) सिलुप् । । छ || उपसर्गात् खल्घञोश्च ||४|४|१०७ || [ उपसर्गात्] उपसर्ग पञ्चमी इसि । [खल्घञोः ] खल् च घञ् च = खल्घञौ, तयोः [च] च प्रथमा सि । = आ । खल्घञोः । सप्तमी ओस् । [ईषत्प्रलम्भम्] लभ्, ईषत् प्रपूर्व० । ईषदनायासेन प्रलभ्यते । 'दुः- स्वीषतः कृच्छ्राऽकृच्छ्रार्थात् खल्' (५।३।१३९) खल्प्र० । अनेन नोऽन्तः । ३३७ [ईषदुपलम्भम्] लभ्, ईषत् उपपूर्व० । ईषदनायासेन उपलभ्यते । 'दुः- स्वीषतः कृच्छ्रा - ऽकृच्छ्रार्थात् खल्' (५।३।१३९) खलप्र० । अनेन नोऽन्तः । [दुष्प्रलम्भम् ] लभ्, दुः- प्रपूर्व० । दुःखेनायासेन प्रलभ्यते । 'दुः- स्वीषतः कृच्छ्रा - ऽकृच्छ्रार्थात् खल्' (५|३|१३९ ) खलप्र० । अनेन नोऽन्तः । Jain Education International अम् । अनेन । प्रथमा सि । [सुप्रलम्भम् ] लभ्, सु-प्रपूर्व० । सुखेनानायासेन प्रलभ्यते । 'दुः- स्वीषतः ० ' ( ५ । ३ । १३९) खल्प्र० । अनेन नोऽन्तः । [प्रलम्भः] प्रलम्भनम् । ‘भावा - ऽकर्त्रीः ' ( ५।३।१८) घञ्प्र० । अनेन नोऽन्तः । [उपलम्भः] उपलम्भनम् । 'भावा - ऽकर्त्री : ' ( ५।३।१८ ) घञ्प्र० । अनेन नोऽन्तः । [विलम्भः] विलम्भनम् । 'भावा - ऽकर्त्रीः ' ( ५।३।१८ ) घञ्प्र० । अनेन नोऽन्तः । [प्रालम्भि] प्र-लभ् । अद्यतनी त । 'भाव-कर्मणोः' ( ३।४।६८) ञिच् इतलोपश्च । 'अड् धातोरादि०' (४।४।२९) अट् । अनेन नोऽन्तः । [प्रलम्भप्रलम्भम् ] अभीक्ष्णं प्रलम्भनं पूर्वम् । 'ख्णम् चाभीक्ष्ण्ये' (५।४।४८) ख्णम्प्र० अम् । अनेन नोऽन्तः । 'भृशाऽऽभीक्ष्ण्याऽविच्छेदे० ' ( ७।४।७३) द्विः । [लाभो वर्त्तते] लम्भनं = लाभः । ‘भावा-ऽकर्त्रा:' ( ५।३।१८) घञ्प्र० अ । ञ्णिति' ( ४ | ३ |५०) उपान्त्यवृद्धिः त्रि- ख्णमोर्नित्यार्थमुपसर्गादेव खल् घञोरिति नियमार्थं वचनम् ||छ || For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy