________________
३३८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
सु-दुर्व्यः ।।४।४।१०८।। [सुदुर्व्यः] सुश्च दुर् च = सुदुर, तेभ्यः ।
[अतिसुलम्भम्] अति-सु, लभ् । अतिशयेन सुखेन लभ्यते । 'दुः-स्वीषतः कृच्छ्रा-ऽकृच्छ्रार्थात् खल्' (५।३।१३९) खलप्र० । अनेन नोऽन्तः ।
[अतिदुर्लम्भम्] अतिशयेन दुःखेन लभ्यते = अतिदुर्लम्भम् । 'दुः-स्वीषतः०' (५।३।१३९) खल्प० । अनेन नोऽन्तः । [अतिसुदुर्लम्भम्] अतिशयेन सुखेन दुष्ठु लभ्यते । 'दुः-स्वीषतः'० (५।३१३९) खल्प० । अनेन नोऽन्तः । [अतिसुलम्भः] अतिशयेन सुष्ठु लभ्यते = अतिसुलम्भः । 'भावा-ऽकों' (५।३।१८) घञ्प० । अनेन नोऽन्तः । [अतिदुर्लम्भः] अतिशयेन दुष्ठु लभ्यते । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० । अनेन नोऽन्तः । [सुलभम्] सुखेन लभ्यते = सुलभम् । 'दुः-स्वीषतः०' (५।३।१३९) खलप्र० । [दुर्लभम्] दुःखेन लभ्यते = दुर्लभम् । 'दुः-स्वीषतः' (५।३।१३९) खल्प० । [सुलाभः] सुखेन लभ्यते = सुलाभः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० । ‘णिति' (४।३।५०) उपान्त्यवृद्धिः । [दुर्लाभः] दुःखेन लभ्यते = दुर्लाभः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । [अतिसुलभम्] अतिशयेन सुष्टु लभ्यते । खल्प० । सि-अम् । [अतिदुर्लभम्] अतिशयेन दुष्ठु लभ्यते । खलप्र० । सि-अम् ।
अतेः पूजातिक्रमयोरनुपसर्गत्वात् यः उक्तं 'धातोः पूजार्थस्वति०' (३।१।१) इत्यत्र उपसर्गादेव सु-दुर्घ्य इति नियमार्थं वचनम् । बहुवचनं व्यस्तसमस्तपरिग्रहार्थं-दुर्दुस्संग्रहार्थं च ।।छ।।
नशो धुटि ।।४।४।१०९॥ [नशः] नश् षष्ठी डस् । [धुटि] धुट् सप्तमी ङि ।
[नंष्टा] 'नशौच अदर्शने' (१२०२) नश् । नश्यतीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ । अनेन नोऽन्तः । 'यज-सृज-मज-राज-भ्राज-भ्रस्ज-वस्च-परिव्राजः शः षः' (२।११८७) श० → प० । 'तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां०'(१।३।६०) त० → ट० ।
[नंष्टुम नश् । नशनाय । 'क्रियायां क्रियार्थायां तुम् णकच भविष्यन्ती' (५।३।१३) तुम्प० । अनेन नोऽन्तः । 'यज-सृज-मृज०' (२।१८७) श० → ष० । 'तवर्गस्य श्ववर्ग०' (१।३।६०) त० → ट० ।
[नक्ष्यति] नश् । भविष्यन्ती स्यति । अनेन नोऽन्तः । 'यज-सृज-मृज-राज०' (२।१।८७) श० → ष० । 'षढोः कस्सि' (२१११६२) ष० → क० । 'नाम्यन्तस्था-कवर्गात०' (२।३।१५) स० → प० । क-षसंयोगे क्ष० । 'म्नां धुड़वर्गेऽन्त्योऽपदान्ते' (११३३९) न० → ङ० ।
P.卐 सुश्च दुरश्च = सुदुरस्तेभ्यः
।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org